ग्राम्यजीवनम् (ग्रामीण जीवनम्)
अस्माकं भारतवर्षः ग्रामाणां देशोऽस्ति। अस्य अधिक संख्यकाः नागरिकाः ग्रामेषु निवसन्ति। तेषां जीवनम् अतीव सरलं सुखकरं च भवति। ग्रामेषु प्रायः ते कृषिमेव कुर्वन्ति। अनेन ते कृषकाः कथ्यन्ते। अस्माकं भारतदेशः कृषिप्रधानः देशोऽस्ति। कृषकाः वस्तुतः अस्माकं सर्वेषां कृते जीवनं ददाति, यतोहि ते स्व क्षेत्रेषु अस्माकं कृते बहूनि जीवनोपयोगिनि वस्तूनि उत्पादयन्ति। अतः तेषां महत्त्वं सर्वविदम् एव।
ग्रामेषु कृषकाणां जीवनम् अतीव कष्टकरं वर्तते। ते प्रातः कालाद् सायंकालपर्यन्तं कठिनं परिश्रमं कुर्वन्ति, यतोहि कृषिः परिश्रमेण विना भवितुं न शक्नोति। ग्रामेषु जनाः प्रायः पशुपालनमपि कुर्वन्ति। पशवः कृषिकार्येषु तेषां सहाय्यं कुर्वन्ति। गावः महिषयश्च दुग्धमपि ददति। अनेन कृषकाणां ग्रामीणानां वा बालकाः संपुषाः बलिष्ठाः च भवन्ति। ग्रामेभ्यः दुग्धं नगरेषु अपि आनयते, तत्र तस्य वितरणं विविधमाध्यमेन भवति।
वस्तुतः ग्रामीणानां जीवनं अतीव कठिनं परिश्रममयं च वर्तते, किन्तु कठिनपरिश्रमं करणेऽपि ते सर्वे प्रसन्नवदनाः भवन्ति। कृषकास्तु प्रायः मध्याहे सायंतने च स्वेषु स्वेषु क्षत्रेषु एव भोजनं कुर्वन्ति, वृक्षाणां छायायां स्थित्वा। अनेकशः रात्री अपि क्षेत्रेषु एव स्वपन्ति, क्षेत्रे स्थितानां शस्यानां रक्षार्थम्। ग्रामीणेषु पारस्परिक प्रेमभावना – सहयोगभावना च भवति। अनेन अस्माकं ग्रामेषु अतीय आनन्ददायकं शान्तं च वातावरणम् अस्ति।
अद्यत्वे नगरेषु यादृशं प्रदूषणं दृश्यते तादृशं ग्रामेषु न अस्ति। अनेन तत्र सर्वे जनाः विशुद्धां जलवायुं सेवन्ते। ग्रामेषु प्रायः सर्वे जनाः शीतोष्णवाधां विहाय स्वेषु कार्येषु संलग्नाः भवन्ति। तत्र नगरसदृशाः भोगसाधनानि न सन्ति। अनेन ग्रीष्मकाले ते वृक्षाणाम् आश्रयं गृह्णन्ति। शीतकाले च अग्निं प्रज्वाल्य उष्णतां लभन्ते।
ते शैत्याधिक्ये माधमासेऽपि शस्यरक्षणार्थ स्व क्षेत्रेषु स्वपन्ति तथा आतपाधिक्ये ज्येष्ठे मासेऽपि आतपे तत्र खलु कार्य कुर्वन्ति। ग्रीष्मे तेषां शरीरेभ्यः श्रमकणानि यहूनि प्रवहन्ति, किन्तु तेऽस्य चिन्तां परित्यज्य मनोयोगपूर्वकं कार्य सम्पादयन्ति।
कृषकाः प्रायः स्वभावेन सरलाः छलछद्मरहिताः विनम्राश्च भवन्ति, किन्तु अस्माकं देशे व्यापारिणः प्रायः तेषां लुण्ठनं कुर्वन्ति। कृषकस्य शस्यस्य मूल्यं कदापि उचितरूपेण न मिलति। व्यापारिजनाः तेषां शस्यं अल्पमूल्येन कीत्वा उच्चमूल्येन विक्रीणन्ति। अनेन सारल्येन एते ग्रामीणाः सदैव हानिं लभन्ते। यद्यपि अद्यत्वे सर्वकारः अनेकप्रकारेण विषयेऽस्मिन् प्रयत्नं करोति, तथापि अधुनापि अधिकः प्रयत्नः करणीयः अस्ति। वस्तुतः ग्रामीणजनाः अस्माकं हृदयानि आर्थिकदृष्ट्या रीढस्य अस्थिनि, अतः अस्माभिः सदैव तेषां आदरः करणीयः, समये समये च तेषां सहायता कर्तव्या।