सत्यम्
न हि सत्यात् परो धर्मः ‘वस्तुतः कथनमेत् पूर्णतया सत्यं शाश्वतं चास्ति। सर्वेषां धर्माणां सर्वेषु ग्रन्थेषु सत्यस्य सर्वोत्कृष्टं स्थानमस्ति। अनेनैव मनुस्मृतिकारेण धर्मस्य लक्षणं कुर्वन् सत्यमन्यतमं स्वीकृतम्-
“आहुः, सत्यं हि परमं धर्म, धर्मविदो जनाः”
मानवैः सदैव सत्यस्य पालनं कर्तव्यम्। सत्यसम्भाषणेन जनस्य समाजे सम्मानं प्रतिष्ठा च वर्धेते, तं कीर्तेः, सफलतायाः, शान्तेः सुखस्य च प्राप्तिर्भवति। सर्वेषु वेदेषु शास्त्रेषु सत्यस्य महिमा वर्णितः दृश्यते। यादृशं महत्त्वं मानवजीवने सत्यस्यास्ति नैव तादृशं अन्यस्य कस्यापि वस्तोः वर्तते। सत्यवादिनः जनाः सदैव निर्भयाः प्रसन्नवदनाश्च भवन्ति। यतः ते सम्यरूपेण जानन्ति यत् –
‘सत्यमेव जयते नानृतम्’
वाक्यमेतदेव तेषां कृते महद्दलं मनोबलं वा भवति। दृष्टस्य श्रुतस्य वा पदार्थस्य यथावत् प्रतिपादनं प्रस्तुतीकरणं वा ‘सत्यम्’ इत्युच्यते। अनेनैव व्यासेन योगसूत्रभाष्ये सत्यपदस्य व्याख्या एवं कृता वर्तते-
“सत्यं यथार्थे वाङ्मनसी “
ये जनाः समाजे सत्यं वदन्ति ते प्रमाणीभवन्ति । तेषां पूजा भवति विषयेऽस्मिन् सत्यवादी हरिश्चन्द्रस्य उदाहरणं दरीदृश्यते। तेन सत्यस्य पालनाय अनेकानि कष्टानि अनुभूतानि। अनेनैव अद्यापि तस्य नाम अत्यादरेण गृह्यते।
एवमेव महाराजदशरथेन स्वप्राणप्रियः रामः वनं प्रेषितः आसीत्। महाभारतस्य सत्यवादिनं धर्मराजयुधिष्ठिरं को न जानाति? सत्यबलेनैव तेन विजयश्रीः लब्धा। रामायणे रामोऽपि सत्यमाश्रित्य वै लङ्कां विजितवान्।
उपनिषत्सु कथितं दृश्यते – “सत्यं वद धर्म चर”, अत्रापि सत्यस्य महत्ता परि-लक्ष्यते। सत्यवादी केवलं ईश्वरादेव विभेति, नैव अन्यस्मात् कस्मादपि जनात् जीवात् वा। यो जनः सत्यं वदति, तस्य मनसि नैव छल-छद्म-लोभस्य वा स्थानं लेशमात्रमपि दरी-दृश्यते। ईदृशः जनः नैव कदापि अनुचितं आचरति।
वस्तुतः धर्मस्य मूलमपि सत्यमेव अस्ति। भारतवर्षस्य तु राष्ट्रचिह्न अपि ‘सत्यमेव जयते’ स्वीकृतं वर्तते। अतः अस्माकं संविधाननिर्मातृभिः विद्वद्भिः सत्यस्य महत्ता स्वीकृता। अनेनैव शिक्षायाः समाप्त्यनन्तरं आचार्योऽपि शिष्याय सत्यसंभाषणस्य उपदेशं ददाति।
अस्य सम्पूर्णस्य संसारस्य अस्तित्वमपि वस्तुतः केषाञ्चिदेव सत्यवादी जनानां सत्याचरेणैव वर्तते। अन्यथा यदि सर्वे जनाः दुष्टाः असत्यवादिनश्च भवेयुः, तर्हि सर्वमेतत् जगत् विनष्टं भवेत्। सत्यस्य आचरणेनैव कस्यापि समाजस्य राष्ट्रस्य वा कल्याणं भवति, तेनैव अस्माकं कल्याणं भवितुं शक्यते। यतः ‘सर्व सत्ये प्रतिष्ठितम्’ इति कथ्यते शास्त्रविद्भिः जनैः।
किन्तु विषयेऽस्मिन् एतदपि सम्यक्रूपेण अवधारणीयम्, यत् सत्यं कदापि अप्रियं न वक्तव्यम्। अनेन श्रोता आहतो भवति, वेदनाञ्च अनुभवति, क्लेशं च प्राप्नोति। अतः शास्त्रेषु – ‘प्रियं सत्यं ब्रूयात् सदैव’ इति कथितम् –
सत्यं ब्रूयात् प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः।।
अद्यत्वे तु प्रायः दृश्यते यत् बहवः जनाः सत्यभाषणात् विमुखाः सन्ति। अधिकसंख्य कानां जनानां प्रवृत्तिः असत्ये प्रतिष्ठिता दरी-दृश्यते। वस्तुतः नैव एतत् शुभलक्षणम्। कुतः यदि वयं स्वराष्ट्रस्य, देशस्य समाजस्य स्वस्य वा उन्नतिं कर्तुं वाञ्छामः, तर्हि सदैव सत्यभाषणं कर्तव्यम्, अनेन समाजे स्वस्थवातावरणस्य निर्माणं भविष्यति।