वसन्तर्तुः | Essay on Spring Season in Sanskrit

0
10539
Essay on Spring Season in Sanskrit

वसन्तर्तुः

अस्मिन् जगति भारतवर्षस्य महत्त्वपूर्ण स्थानम् अस्ति। यतोहि भारतवर्ष ऋतुप्रधानं राष्ट्रम् अस्ति। यादृशी सुषमा अत्र दृश्यते प्रकृतेः तादृशी सर्वस्मिन् विश्वे सुदुर्लभास्ति। सम्पूर्णे वर्षे अत्र षड्-ऋतवः भवन्ति, क्रमेण च तेषां ईदृशी स्थितिः- वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः शिशिरश्च इति। यद्यपि एषु सर्वेषु सर्वे एव ऋतवः रमणीयाः सन्ति, किन्तु वसन्तः ऋतुः सर्वोत्कृष्टत्वं भजते। अनेनैव ऋतुरयं ऋतुराजः कथ्यते।

ऋतुराजस्य अस्य अन्यानि नामानि कुसुमाकरः, मधुमासश्चापि सन्ति। वस्तुतः असौ ऋतुः अन्येभ्यः सर्वेभ्यः ऋतुभ्यः आकर्षकः, सुन्दरः मनोहरश्च अस्ति। वसन्तर्तुः शिशिरऋतोः पश्चात् आगच्छति। शिशिर ऋतौ सर्वेषां वृक्षाणां वनस्पतीनां वा पत्राणि पीतानि भूत्वा भूमौ पतन्ति। सर्वे वृक्षाः दिगम्बराः इव प्रतीयन्ते, किंवा शोकार्ता भवति प्रकृतिः।

किन्तु ऋतुराजवसन्तस्य आगमने सर्वे वृक्षाः लताश्च नूतनपल्लवसम्पन्नाः भवन्ति। उद्यानेषु मयूराः प्रसन्नाः भूत्वा नृत्यन्ति। वृक्षाणां शारवासु पक्षिणः इतस्ततः प्रसन्नाः इव मधुरं गायन्ति। कोकिलानां कृते तु ऋतुरयं महोत्सवः इव भवति। ते सर्वे आम्रवृक्षेषु पुनः पुनः उड्डीय ‘कुहू’ ‘कुहू’ इति मधुरं ध्वनिं कृत्वा पुरुषाणां स्त्रीणां च मनांसि हरन्ति। एवं वस्तुतः ऋतुरेषः सर्वेषां जनानां प्राणीनां वा आकर्षणमस्ति। कथितं सम्यगेव केनचित् कविना-

न तञ्जलं यन्न सुचारु पङ्कजं,
न पङ्कजं तत् यदलीन षटपदम् ।
न षट्पदोऽसौ कलगुञ्जितौ न यः
न गुञ्जितं तन्न जहार यन्मनः ।।

अस्मिन् ऋतौ सर्वे तडागाः कमलसम्पन्नाः दृश्यन्ते। तेषु भ्रमराः मधुरं गुञ्जन्ति, स्वप्रियया सह तेषां पुष्पाणां रसपानं कुर्वन्ति। पलाशवृक्षाः अस्मिन् समये पुष्पिताः रक्तवर्णाः भवन्ति। एवमेव कर्णिकार – पुष्पाणां पीताभा सर्वेषां जनानां मनांसि हरति। कुन्दपुष्पस्य सुगन्धिस्तु अतिदूरादेव जनानां चेतांसि आकर्षयति। वस्तुतः सम्पूर्ण वातावरणे मन्दः मन्दः सुगन्धितः वायुः प्रवहति। एतत् सर्वम् अवलोक्य एव सम्भवतः कविना उक्तम्-

नवकिसलयरागरञ्जितोऽयं रसालः,
हरति मदकलानां कोकिलानां मनांसि ।।
बकुलमलिकुलानां गुञ्जितेनाकुलं तत्,
मृदुलसुरभिगन्धिं गन्धवाहं करोति ।।

अस्मिन् ऋतुराजे आम्रमञ्जर्यः विकसन्ति। वृक्षाणानां पुष्पिताः शाखाः पुष्पैः भरिताः प्रणमन्त्यः इव प्रतीयन्ते। वस्तुतः अस्मिन् काले सम्पूर्णा एव प्रकृतिः सर्वत्र खलु प्रफुल्लिता इव आभाति। अस्मिन् ऋतौ सूर्यस्य आतपः सुखदायकः भवति। दिवसाः समशीतोष्णाः भवन्ति। अतः सर्वे ग्रामवासिनः नगरवासिनश्च प्रतिक्षणं नवनवताम् अनुभवन्ति। महाकविकालिदासेन ऋतुसंहारे नाम गीतिकाव्ये वसन्तर्तोः वर्णनम् अतीव मनोहरं कृतं विद्यते, यः सहृदयानां चेतांसि सहजेनैव हरति-

द्रुमाः सपुष्पाः सलिलं सपद्म,
स्त्रियं सकामाः पवनः सुगन्धिः ।
सुखाः प्रदोषा दिवसाश्च रम्याः,
सर्वं प्रिये चारुतरं वसन्ते ।।

अस्मिन् ऋतौ एव रङ्गानाम् उत्सवः ‘होलिका’ इति भवति। उत्सवोऽयं सर्वान् जनान् प्रीणाति। होलिकावसरे जनाः स्त्रियश्च मिलित्वा परस्परं विविधैः रागैः क्रीडन्ति, नृत्यन्ति, गायन्ति हसन्ति च। अस्मिन् ऋतौ सर्वेषु स्नेहस्य संचारः भवति। वस्तुतः वसन्तकाले सर्वत्र नवीनता, उत्साहः, स्फूर्तिः प्रसरति। अस्य ऋतोः वैशिष्ट्यं विचिन्त्य एव सम्भवतः श्रीकृष्णोऽपि गीतायां स्वस्योपमा ऋतुराजेन सह करोति-

“ऋतूनां कुसुमाकरोऽस्मि’

अस्मिन् समये प्रातःकालिकं भ्रमणम् अतीव स्वास्थ्यकरं हितकरञ्च मन्यते। यतोहि प्रकृतिप्रदत्तानि सर्वाणि गुणानि ऋतौ अस्मिन् प्रातः काले वातावरणे विद्यन्ते। अनेन खलु आयुर्वेदशास्त्रे वसन्तभ्रमणं पथ्यकरं कथितम् –

“वसन्तेभ्रमणं पथ्यम्”

वस्तुतः मानवस्य जीवने तस्य बाल्यावस्था यथा सुखमयी आनन्ददायिनी च भवति तथैव सम्पूर्णे वर्षे कालोऽयं सर्वेभ्यः प्राणिभ्यः सुखम् उल्लासम् आनन्दञ्च ददाति। अस्मिन् काले जगतः सर्वेषु प्राणिषु मादकता समायाति, प्रसन्नतायाः नूतनः संदेशः प्रददाति ऋतुरेषः। प्रतीयते यत् परमेश्वरः सृष्टेः रमणीयतमं स्वरूपम् अस्मिन् ऋतौ वै प्रदर्शयति। अनेनैव मानिनीनां मानमपि ऋतौ अस्मिन् विनष्टं भवति। मानापगमे प्रिया-प्रियतमयोः विलासव्यापारः निर्बाधरूपेण प्रसरति, न केवलं मानवानां अपितु सर्वेषां प्राणिनां समूहाः शृङ्गारस्य रसस्यताम् अनुभवन्ति। आर्याणां सौरवर्षोऽपि वसन्तर्तों एव प्रारभ्यते तथा च चन्द्रवर्षस्य आरम्भोऽपि अस्मिन् ऋतौ खलु भवति। प्रायः सर्वैः कविभिः अस्य ऋतोः वर्णनम् स्वकाव्येषु कृतम्। महाकविः माघः कथयति वसन्तविषये-


LEAVE A REPLY

Please enter your comment!
Please enter your name here