वर्षर्तुः | Essay on Rainy Season in Sanskrit

0
10549
Essay on Rainy Season in Sanskrit

वर्षर्तुः

ग्रीष्माद् अनन्तरं वर्षर्तोः आगमनं भवति। ऋतुषु अयं तृतीयः ग्रीष्मकालस्य सूर्यस्य किरणैः सन्तप्ताः जनाः प्राणिनश्च अस्मिन् ऋतौ चिरशान्तिं लभन्ते। वस्तुतः ऋतुः एषः जीवनदायी वर्तते। ग्रीष्मे यज्जलं नदीषु तडागेषु वा शुष्यति अस्मिन् ऋतौ तत् पुनः मेधैः परिपूर्यते। सर्वत्र हरीतिमा प्रसरति। नभः मेधैराच्छन्नः भवति। अस्मिन् काले बाहुल्येन वर्षा भवति। मेघानां परस्पर-संघहनेन विद्योतते विद्युत्, प्रचण्डः शब्दः च जायते, तत् मेघानां गर्जनमिव आभाति।

वर्षाकाले यदा कदा जलबिन्दवः शनैः शनैः पतन्ति, कदाचित्तु प्रबल-रूपेण वृष्टिः भवति। अस्मिन् ऋतौ सर्वे जलाशयाः जलेन परिपूर्णाः जायन्ते, जलं खलु धूलकणैः मलिनं भवति। नदीषु जलं क्षेत्राणां मार्गाणां पर्वतानां च मृदां गृहीत्वा वेगेन प्रवहति। ग्रीष्मकाले प्रचण्डातपैः संतप्ताः सर्वे वनवासिनः प्राणिनः ऋतौ अस्मिन् उल्लासं अनुभवन्ति, इतस्ततः धावन्ति कूर्दन्ति च। मयूराः नृत्यं कुर्वन्ति।

वर्षर्तों प्रकृत्याः स्वरूपं मनोहारि रमणीयञ्च अतीव भवति। दिग्दिगन्तव्यापिनी श्यामलतां विलोक्य सर्वेषां प्राणिनां मनांसि प्रसीदन्ति। अस्मिन् काले प्रकृतिः विविधरूपा भवति। कदाचित् शीतलः पवनः प्रवहति, कदाचित्तु झञ्झावातः आयाति। येन बहवः वृक्षाः धराशायिनः भवन्ति। एवमेव कदाचित् जलकणानि मन्दं मन्दं वर्षन्ति, कदाचित्तु प्राबल्येन वृष्टिः भवति, तेन नदीषु तडागेषु च जलस्तरः वर्धते। अतिवृष्ट्या अनेकशः जलप्लावोऽपि भवति। येन मार्गाः अवरूद्धाः जायन्ते, भूमिश्च पडिला भवति। दूषिते वातावरणे अनेके रोगाः भवन्ति।

अस्मिन् ऋतौ आकाशे कदाचित् इन्द्रधनुषस्यापि दर्शनं भवति। सप्तरङ्गी इन्द्रधनुषः सर्वेषां मनांसि हरति। मेघेषु दीपिता विद्युत् दूरं यावत् दृश्यते, अग्रिमे खलु क्षणे अन्तर्धानं भवति। मेघगर्जनं बालेषु स्त्रीषु च भयं उत्पादयति।

सूर्यदर्शनं ऋतौ अस्मिन् सुदुर्लभमेव भवति। श्यामवर्णाः अम्बोदाः तं आच्छा-दयन्ति। आकाशे मेधैः सह सूर्यस्य मल्लयुद्धः इव भवति, यस्मिन् मल्लयुद्धे मेघानां विजयः भवति। अस्मिन् समये पृथिव्यां प्रसुप्ताः मण्डूकाः बहिरागच्छन्ति, उल्लासेन च तडागकूपादिषु ‘टर्र-टर्र ‘ ध्वनिना गीतं गायन्ति, मोदन्ते च। वीथिषु बालकाः क्रीडन्ति। वृक्षेषु चातकाः, विलेषु झिल्लिकाः, ध्वनिं मनोभाविनीं कुर्वन्ति कूजन्ति वा।

वृष्टिविरामे सर्वेपक्षिणः स्व-स्व नीडेभ्यः निसृत्य आकाशे उड्डीयन्ते, मधुरञ्च कलरवं कुर्वन्ति। वर्षाकालस्तु कृषकानां कृते तेषां जीवनमेव भवति। मुदिताः कृषीवलाः ग्रामेषु स्व-स्व क्षेत्रेषु गत्वा कृषिकार्य कुवन्ति। कर्षणयन्त्रेण (हलेन) क्षेत्राणि कर्षन्ति, बीजानि च वपन्ति। ऋतुः अयं श्रावणमासे भवति। अतः बालिकाः वृक्षेषु दोलाम् उद्दोलयन्ति मुदिताः भूत्वा। आदिकविना महर्षि वाल्मीकिना अस्य ऋतोः वर्णनम् एवम् कृतं विद्यते-

वहन्ति वर्षन्ति नदन्ति भान्ति,
ध्यायन्ति नृत्यन्ति समाश्वसन्ति।
नद्यो घनाः मत्तगजाः वनान्ताः,
प्रियाविहीनाः शिखिनः प्लवंगाः ।।

वस्तुतः मनोहरोऽयं वर्षाकालोऽस्ति। सुखकरी कल्याणकरी च अयं वर्षाऋतुः सर्वेभ्यः लोकेभ्यः रोचते। अनेनैव सर्वे प्राणिनः अस्मिन् काले मुदिताः प्रसन्नाश्च दृश्यन्ते। कामदेवः अस्मिन् ऋतौ प्राबल्यम् आवहति। अनेनैव सकामाः युवतयः अभिगन्तुकामाः भवन्ति। प्रवासिनः जनाः स्वदेशं प्रति गन्तुम् उत्कण्ठिताः भवन्ति। वनवाताः शीतलजलकणैः संयुक्ताः सुरभिराप्लाविताः भवन्ति।

वर्षाऋतुः वस्तुतः अस्यां पृथिव्यां सर्वेषां जीवानां आधारः। अनेन विना प्राणिनः जीवितुं न शक्नुवन्ति। अनेनैव देशेऽस्माकं अस्मिन् काले स्थानेषु सर्वेषु उत्सवाः भवन्ति। वैदिके साहित्येऽपि विषयेऽस्मिन् प्रार्थना कृता विद्यते-

“निकामे निकामे नः पर्जन्यः वर्षतु ।
फलवत्यो न ओषधयः पच्यन्ताम् ।।”


LEAVE A REPLY

Please enter your comment!
Please enter your name here