परोपकारः
परेषां उपकारः परोपकारः, इति कथ्यते। संसारेऽस्मिन् स्व हानिलाभयोः चिन्तां परित्यज्य परेषां हितकरणाय यानि कार्याणि क्रियन्ते तानि सर्वाणि परोपकाराणि कथ्यन्ते। एतादृशाश्च जनाः परोपकारिणः भवन्ति।
अस्मिन् जगति द्विधा जनाः भवन्ति, केचित् स्वार्थाय जीवन्ति, केचिच्च परार्थाय। स्वार्थिनः यदपि कुर्वन्ति तत्र तेषां कोऽपि स्वार्थो भवत्येव। स्वार्थाभावे तेषां कापि क्रिया न सम्पद्यते, किन्तु ये जनाः परोपकारिणः भवन्ति, तेषां सर्वे क्रियाकलापाः खलु अन्येभ्यः प्राणिभ्यः एव भवन्ति। ते लेशमात्रमपि स्वार्थवशात् न चिन्तयन्ति, न किमपि स्वार्थाय कुर्वन्ति। न केवलमेतत् एतादृशाः परोपकारिणः तु स्व प्राणान् अपि अन्येभ्यः जीवेभ्यः ददति। ते जनाः वस्तुतः जगत्यस्मिन् मानवतायाः कृते आभूषणमेव भवन्ति। विषयेऽस्मिन् महाकविना भर्तृहरिणा अति सुन्दरमुद्धृतम्-
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये,
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये,
ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ।।
प्रसङ्गेऽस्मिन् सत्पुरुषरूपेण महाराज्ञः शिवेः नाम को न जानाति, येन कपोतमात्रस्य जीवितार्थं स्वशरीरस्य मांसमपि विच्छिद्य हस्तेन स्वेनैव तूलिकायां न्यक्षिपत्, अन्ते च स्वयमेव तस्यां तूलिकायां आरोहत्। एवमेव महर्षिः दधिचिः मानवतायाः उपकारार्थ, देवैः प्रार्थनाकृते सति स्व अस्थिनि अपि अददात्। वस्तुतः तेषां जीवनं धन्यं येऽन्येभ्यः जनेभ्यः जीवन्ति । स्वार्थमयी वृत्तिस्तु पशूनाम् भवति। कथितञ्च-
पशवो हि जीवन्ति केवलं स्वोदरम्भराः ।
तस्यैव जीवितं श्लाघ्यं यः परार्थं हि जीवति ।।
परोपकारिणां जीवनं तु परोपकारः एव भवति। ये जनाः परोपकारं कुर्वन्ति, तेषां समाजे सम्मानं भवति, ते सर्वत्र प्रतिष्ठां लभन्ते। अनेनैव महाकवि भर्तृहरिणा कथितम्-
श्रोत्रं श्रुतेनैव न कुण्डलेन,
दानेन पाणिर्न तु कङ्कणेन ।
विभाति कायः करुणापराणां,
परोपकारै र्न तु चन्दनेन ॥
वस्तुतः सत्यमेव एतत् यत् मानवस्य शोभा परोपकारेण भवति न तु अलङ्कारैः। प्रकृतेरप्युपादानानि, तत् वृक्षः स्यात् नदी वा भवतु, अम्बोदः भवेत्, सूर्यः वा अस्तु, चन्द्रमा अपि वा स्यात् । सर्वेषां एतेषां जीवनं परोपकाराय एव। अनेनैव कथ्यते –
स्वयं न खादन्ति फलानि वृक्षाः,
पिबन्ति नाम्भः स्वयमेव नद्यः ।
धाराधरो वर्षति नात्महेतोः,
परोपकाराय सतां विभूतयः ।।
शास्त्रेषु अपि परोपकारस्य अतीव प्रशंसा कृता विद्यते। अष्टादश पुराणानां कर्ता महर्षिः वेदव्यासोऽपि कथयति –
अष्टादशपुराणेषु व्यासस्य वचनं द्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ।।
ये जनाः परोपकारं कुर्वन्ति, ईश्वरोऽपि तेषां सहाय्यं करोति। वस्तुतः परोपकारः सर्वेषां धर्माणां तत्त्वमेवास्ति। ये जनाः परोपकारिणः भवन्ति, ते यदि पूजामपि न कुर्युः नैव कापि हानि, कुतः भगवान् अपि परोपकारिणं प्रति उदारो भवति। परोपकारी जनः परोपकारं कृत्वा असीमशान्तिं अनुभवति। महाकवि श्रीहर्षदेव प्रणीते ‘नागानन्दम्’ नाम नाटके जीमूतवाहनो नाम नायकः एतादृशः एव, सः स्वशरीरमपि शङ्खचूडस्य नाम जनस्य कृते दत्त्वा असीमानन्दं अनुभवति। एतादृशाः जनाः वस्तुतः मानवतायाः कृते रत्नतुल्यः एव भवन्ति। वध्यशिलायां स्थित्वा सः जीमूतवाहनः चिन्तयति एवम् –
न तथा सुखयति मन्ये मलयवती मलयचन्दनरसार्द्रा ।
अभिवाञ्छितार्थसिद्ध्यैवध्यशिलेयं यथा स्पृष्टा ।।
अथवा किं मलयवत्या-
शयितेन मातुरडे विस्रब्धं शैशवे न तत् प्राप्तम् ।
लब्धं सुखं मयास्या वध्यशिलाया यदुत्सङ्गे ।।
सज्जनास्तु परोपकारं स्व कर्तव्यं मन्यन्ते। ते स्वयं कष्टान् अनुभूय अपि परेषां सेवार्थं उपकारार्थं वा सज्जीभवन्ति। वस्तुतः परोपकारिणां जीवनं धन्यं भवति, यतः स्वार्थाय तु सर्वे खलु जीवन्ति, परार्थाय वै जीवनं जीवनं भवति। अतः अस्माभि सदैव अन्येषां उपकारः करणीयः, एतदर्थं सज्जीभवितव्यः वा सत्यमेव कथितमञ्च केनापि कविना-
परोपकाराय वहन्ति नद्यः,
परोपकाराय फलन्ति वृक्षाः ।
परोपकाराय दुहन्ति गावः,
परोपकारार्थमिदं शरीरम् ।।