देशभक्तिः
सेवार्थक ‘भज्’ धातोः क्तिन् प्रत्यये कृते ‘भक्तिः’ इति शब्दो निष्पद्यते। मनुष्यः यस्मिन् देशे, राष्ट्र, समाजे वा जन्म गृह्णाति, तस्मिन् समर्पणभावना आदरभावना च देशभक्तिः, राष्ट्रभक्तिः, समाजभक्तिः वा कथ्यते। यस्मिन् अपि देशे जनः जन्म लभते तस्य अन्नेन, जलेन, वायुना च तस्य मानवस्य शरीरनिर्माणं भदति। अतः तं प्रति तस्य प्रेम, आदरः समर्पणभावना वा स्वाभाविकी।
यथा माता स्वशिशून् दुग्धदानेन पालयति तथैव जन्मभूमिरपि अन्नदानादिना मानवान् रक्षति। अनेनैव शास्त्रेषु ‘जननी जन्मभूमिश्च स्वर्गादपि गरीयसी’ कथ्येते।
अस्याः मातृभूमेः अन्नजलादानेनापि यदि जनः एषां प्रति समर्पणभावनां न करोति, तर्हि सः देशभक्तो न भवति। ईदृशस्य जनस्य जन्म निरर्थकं भवति। यतोहि जन्मभूमिः स्व निवासिनः जनान् स्वकीयेन जलेन, ओषधी वनस्पतिभिश्च शिशून् इव पालयति पोषयति च तस्या एव प्राङ्गणे क्रीडन्तः जनाः वर्धन्ते बलिष्ठाश्च भवन्ति। तस्यामेव भूमी विचरताम् सताम् सङ्गत्या मानवाः विशिष्टान् आचारान् शिक्षन्ते। बाल्यावस्थायाः किशोरावस्थायाश्च मधुरस्मृत्यः तया एव भूम्या सम्बद्धा भवन्ति।
अनेनैव कारणेन जनाः स्वजन्मभूमौ स्वगृहे इव सुखम् प्राप्यन्ते, तत् सुखम् तु अन्यत्र दुर्लभमेव। वस्तुतः जन्मभूमिरपि जननीवत् पूज्या समादरणीया च सापि स्वर्गापेक्षया गरिमामयी महिमामयी च। यस्यां भूमौ अस्माभिः जन्म गृहीतम्, यस्यां क्रीडितं धावितं, ईदृशी सा वात्सल्यमयी जन्मभूमिः कदाचिदपि क्वचिदपि न विस्मरणीया। यस्याः जलं पायं पायं, अन्नं भोजं भोजं अस्माकं शरीरं सुपुष्टं, सबलं, ओजोमयं तेजोमयं वा संजातम् सा मातृभूः सततं वन्दनीया पूजनीया च।
यदा रामः लङ्कां विजितवान् तदा लक्ष्मणस्य अयं प्रस्तावः आसीत् यत् लङ्कायाः वैभवम् अतुलितम् अस्ति। अतः रामः लङ्काधिपति स्यात् तस्मिन् समये रामः प्रस्तावम् एतत् न स्वीकृतवान्, कथितम् च तेन-
अपि स्वर्णमयी लड्डा न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।
वस्तुतः एतत् रामस्य स्वजन्मभूमिं प्रति स्वदेशं प्रति प्रेम आसीत्। एषा तस्य देशभक्तिः एव आसीत्। कोऽपि देशभक्तः अस्यां परिस्थितौ एवम् एव अनुभवति। तस्य समीपे यदि स्वर्ग-सुखानि अपि स्यात् तदापि सः मातृवत् स्वजन्मभूमिं न विस्मरति। विवेकशीलानां मानवानां तु का कथा? अपितु पशुपक्षिणोऽपि स्वजन्मभुवं प्रति असीम स्नेहं कुर्वन्ति। अनेनैव ते सायंतने काले स्व-स्व निवासस्थानं प्रति धावन्ति, इति प्रत्यहं वयं पश्यामः। अतएव मातृवत् भूप्रेम युक्तैः बहुभिः देशभक्तैः मातृभूमेः चरणौ स्वकीय शिरांसि समर्प्य तस्याः सेवा कृता आसीत्।
पराधीनता समये भारतभूमौ पारतन्त्र्य शृङ्खला विनाशाय भगतसिंह – चन्द्रशेखर प्रभृतिभिः अनेकैः वीरैः अनेकानि गौरवमयानि कार्याणि कृत्वा मातृभूमेः चरणयोः स्वकीयं बलिदानं विहितम्। एवमेव लोकमान्य बालगङ्गाधरतिलक-मदनमोहनमालवीय-मोतीलाल नेहरु-महात्मागान्धि-प्रभृतिभिः देशभक्तैः स्वलौकिक सुखं समुन्नतिं च विस्मृत्य देशसेवा कृता। क्रान्तिकारिषु वीरसुभाषस्य नाम को न जानाति येन विदेशे गत्वा सेनासंघटनं विधाय मातृभूमेः स्वातन्त्र्यर्थं महान् प्रयत्नः कृतः।
वेदेषु अपि “माता भूमिः पुत्रोऽहं पृथिव्याः” इति उक्तिः विद्यते साऽपि जन्मभूमेः मान्यताम् एव कथयति। अस्माकं पुराणसाहित्येऽपि मातृभूमेः माहात्म्यबोधकाः वहवः प्रसङ्गाः अस्माकं दृष्टिपथं आयान्ति। अतः अस्माभिः सर्वैः सदैव स्वदेशं प्रति स्व जन्मभूमिं प्रति आदरो विधेयः। तस्याः कृते सदैव प्राणान् अपि परित्यागाय सज्जो भवितव्यः, इति।