अस्माकं प्रियः कविः (कालिदासः)
कविकुलगुरोः महाकवि-कालिदासस्य नाम को न जानाति अपारे काव्यसंसारे ऽस्मिन्। येन न केवलं भारतवर्ष अपितु सम्पूर्ण जगत् आत्मानं धन्यं मन्यते। एतादृशः सः एव महाकविः मम प्रियः कविः अस्ति। महाकविरयं कदा, कुत्र वा जातः? इत्यस्मिन् विषये विद्वांसः नैव एकमताः सन्ति। यतोहि महाकवेरस्य प्रमाणभूतं इतिवृत्तं अद्यापि कुतश्चित् न प्राप्यते। महाकविकालिदासेन स्वनाटकेषु, काव्येषु वा नैव किमपि स्वविषये लिखितमस्ति।
यद्यपि अनेके भारतीयाः यूरोपीय विद्वांसः तस्य कृतिषु एव किमपि अवगन्तुं प्रयतन्ते, तथापि इदानीं यावत् ते ‘इदमित्थम्’ इति रूपेण न निश्चेतुं शक्ताः। अस्य कारणम् अन्यदपि यत् संस्कृत साहित्ये ‘कालिदास’ नामकाः एकाधिकाः कवयः भूताः।
तथापि केचन विद्वांसः तस्य उज्जयिनीं प्रति विशेषस्नेहकारणेन तं उज्जयिनीनिवासी मन्यन्ते। तेषां मते तेन सम्राट्ट्विक्रमादित्यस्य आश्रये स्वजीवनं यापितम्। अस्याः मान्यतायाः आधारोऽयं श्लोकः-
धन्वन्तरि-क्षपणकामरसिंह-शंकु –
वेतालभट्टघटकर्पर कालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररूचि र्नवविक्रमस्य ।।
महाकविकालिदासेन अनेकानि ग्रन्थरत्नानि विरचितानि। तेषु महाकाव्ये ‘रघुवंशम् कुमारसम्भवम्’ इति द्वे वर्तेते। नाटकानि अभिज्ञानशाकुन्तलम्, मालविकाग्निमित्रम्, विक्रमोर्वशीयम् इति त्रीणि सन्ति, द्वे च गीतिकाव्ये मेघदूतं ऋतुसंहारञ्च। तेषु सर्वेषु अभिज्ञानशाकुन्तलस्य काव्यसंसारे अतीव महत्त्वं वर्तते। अनेनैव प्रसिद्धिरेषा संजाता-
काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला ।
तत्रापि चतुर्थोऽङ्कः तत्र श्लोक चतुष्टयम् ।।
रघुवंशम् ‘नाम महाकाव्यस्य रचनाशैलीं सूक्ष्मदृष्ट्या अवलोकनेन प्रतीयते यदस्य रचना महाकविना ‘कुमारसम्भवम्’ नाम महाकाव्यस्य पश्चात् खलु कृता, सप्तदश सर्गात्मके महाकाव्येऽस्मिन् कालिदासेन शिवस्य पुत्रोत्पत्तिकथा निबद्धा कृता वर्तते। केचित्
विद्वांसः मन्यन्ते यदस्य काव्यस्य अष्टसर्गपर्यन्तमेव संरचना कृता महाकविना। रघुवंशे राजा दिलीपाद् आरभ्य अग्निवेशपर्यन्ता रघुवंश-परम्परा सम्यक्रूपेण प्रदर्शिता महाकवि कालिदासेन ।
एवमेव ऋतुसंहारे षङ्ऋतूनां मनोहारिवर्णनं कृतम्, प्रतीयते एतत् यद् महाकवेः कृतिरेषा प्रथमा वर्तते। अन्यं गीतिकाव्यं ‘मेघदूतम्’ दूतकाव्य-परम्पराम् अवलम्ब्य संरचितम् । अस्य काव्यस्य विषये विद्वत्सु प्रसिद्धिरेषा श्रूयते प्रशंसारूपेण-
“मेघे माघे गतं वयः”
वस्तुतः मेघदूते महाकवेः काव्यकला अतीव चमत्कारी मनोहारिणी च सञ्जाता। महाकविकालिदासस्य कवितायाः अनेकाः विशेषताः सन्ति, तासु विशेषतासु एका अन्यतमा, उपमालङ्कारस्य प्रयोगे कविरेषः परमं वैशिष्ट्यं भजते। अनेनैव आभाणकम् एतत् प्रसिद्धं सञ्जातम्-
“उपमा कालिदासस्य”
यद्यपि महाकविना सर्वे रसाः स्वकाव्येषु प्रयुक्ताः सन्ति, तथापि रसराजे शृङ्गारे तत्रापि वियोग शृङ्गारे विशेषेण रुचिरस्य प्रतीयते। कथनस्य अस्य पुष्टिः मेघदूते संदेशेन, रघुवंशे रामस्य कारुण्येन, शकुन्तलायाः वियोगे, अजस्य विलापे, कुमारसंभवे रतेः शोके निदर्शनरूपेण भवति। कालिदासस्य सम्पूर्ण साहित्ये एका उपमा अतीव प्रसिद्धा जाता, यया सः’ दीपशिखा कालिदासः’ अपि कथ्यते-
सञ्चारिणी दीपशिखेव रात्रौ,
यं यं व्यतीताय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे,
विवर्णभावं स स भूमिपालः ।।
वस्तुतः कालिदासस्य कृतिषु उपमायाः आधिक्यम् उत्कृष्टत्वञ्च विराजते । कालिदासस्य प्रशंसायां प्रसङ्गेऽस्मिन् अधिकं न उक्त्वा, इदम् एव वक्तव्यम् यत्, अस्मिन् भूमण्डले कालिदाससमः कविः न भूतो न भविष्यति केनचित् कविना अनेनैव कथितम्-
पुरा कवीनां गणनाप्रसङ्गे,
कनिष्ठिकाधिष्ठितकालिदासाः ।
अद्यापि तत्तुल्यकवेरभावात्,
अनामिका’ सार्थवती बभूव ।।
अन्ते केवलम् एतत् कथनीयं कालिदासस्य प्रशंसायां कालिदासः खलु विलासः कलायाः, प्रकाशः प्रतिभायाः, विकास व्यञ्जनायाः, कल्पः कमनीयकल्पनायाः, अवतारः वाग्देवतायाः, योजकः उपमायाः इति ।