अस्माकं प्रियो नेता (पं. जवाहरलालनेहरुः)
भूमण्डलेऽस्मिन् एतादृशाः बहवः जनाः संभूताः, ये नश्वरशरीरस्य क्षयेऽपि यशः कायेन जीवन्ति। श्रेष्ठतमैः कार्यः अद्यापि तेषां नामानि स्वर्णाक्षरेषु अङ्कित्तानि सन्ति। एवमेव अस्माकं भारतभूमौ अपि अनेके महापुरुषाः प्रादुर्भूताः काले काले। तेषु महापुरुषेषु ‘पं. जवाहर लाल नेहरूः’ इति नाम्ना ख्यातः महापुरुषोऽपि अभवत्। सः स्वतन्त्रभारतस्य प्रथमप्रधानमन्त्री आसीत्। सः खलु मम प्रियोऽस्ति, शान्तिदूतेन प्रसिद्धः, सः वस्तुतः अस्माकमर्थे भारतवर्ष-स्यार्थे च अतीव गौरवास्पदं जातः।
अस्मिन् संसारे बहवः प्राणिनः जन्मानि लभन्ते, म्रियन्ते च। तेषां जीवनस्य किमपि लक्ष्यं न भवति, पशुतुल्यं तेषां जीवनं भवति, यतोहि पशवोऽपि स्वोदरपोषणाय जीवन्ति। एवमेव एतादृशाः सामान्याः पुरुषाः जीवन्ति। वस्तुतः तेषामेव जीवनं सार्थकं ये परार्थ जीवनं धारयन्ति, एतादृशाः एव जनाः महापुरुषाः कथ्यन्ते, तेषां जीवनं श्लाघ्यं भवति। उक्तञ्च-
पशवोऽपि जीवन्ति केवलं स्वोदरम्भराः ।
तस्यैव जीवितं श्लाघ्यं यः परार्थं हि जीवति ।।
पं. जवाहरलालनेहरुः एतादृशः एव महापुरुषोऽस्ति। सः एकः देशभक्तः सर्वजनानां हितचिन्तकः विश्वस्य च बन्धुरासीत्। तस्य गणना विश्वप्रसिद्धेषु नीतिविशारदेषु अभवत्। अस्य पिता पं. मोतीलाल नेहरूः स्ययुगस्य प्रौढः अधिवक्तारूपेण प्रसिद्धः आसीत्। श्रीमती स्वरूपरानी अस्य माता वस्तुतः शीलवती, रूपसम्पन्ना, धार्मिका देशभक्ता च महिला आसीत्।
पं. जवाहरलाल नेहरुः इलाहाबादनगरे नवम्बरमासस्य चतुर्दशतारिकायां ‘आनन्द-भवनम् ‘नामके गृहे १८८९ तमे वर्षे प्रादुर्वभूव। जवाहरलालस्य वाल्यकालं राजकुमार इव वैभवसम्पन्ने वातावरणे व्यतीतम् अभवत्। तस्य शिक्षा आङ्गलद्वीपे सञ्जाता। अस्य विवाहः ‘कमला’ नाम शीलवती कन्यया सह अभवत्। कमलायाः इन्दिरा नाम्नि एका सुता उत्पन्ना। अस्य विजयलक्ष्मी पण्डिता कृष्णा च द्वे भगिन्यौ आस्ताम्।
विद्यार्थिजीवने पं. जवाहरलालेन हिन्दी-उर्दू-आङ्ङ्गलभाषायाः शिक्षा गृहीता। तदनन्तरं सप्तवर्षपर्यन्तं विदेशे स्थित्वा भौतिकशास्त्रे विधिशास्त्रे च प्रवीणता लब्धा अनेन, पश्चात् विधिसम्मत ‘वैरिस्टर’ इत्युपाधिम् अधिगम्य एषः स्वदेशे भारते प्रत्यावर्तत्।
भारतम् आगत्य अधिवक्तृव्यवसायः न स्वीकृतः। अस्य कारणं इदम् आसीत् यत् भारतमाता तदानीं परतन्त्र्य-शृङ्खलाभिः निवद्धाऽऽसीत्, अतः अनेन भारतमातायाः सेवायाः निश्चयः कृतः। तस्मिन्नेव काले महात्मागान्धिमहोदयेन सत्याग्रहादि-आन्दोलनानि प्रारब्धानि कृतानि आसन्। राष्ट्रसेवायां संलग्नः महापुरुषोऽयं देशभक्तिभावेन आप्लुतः महात्मायाः शान्तिप्रिये युद्धक्षेत्रे प्रविष्टोऽभवत्।
न केवलम् एतत् अस्य मातापितरौ, धर्मपत्नी, कमला, भगिनी विजयलक्ष्मी कृष्णा च अल्पवयसी पुत्री इन्दिरा च सम्पूर्ण: एव परिवारः देशसेवायाम् आत्मानं देशस्य स्वातन्त्र्यसंग्रामे अजुहोत्। अनेन तस्मिन् समये देशसेवायाः व्रतः स्वीकृतः। पुनः कांग्रेस संस्थायाः सदस्यता गृहीता। तदनन्तरम् अस्याः संस्थायाः नेतृत्वे परतन्त्रतापाशवर्द्ध भारतदेशं मोक्तुं बहुबारं एषः कारागारस्य यातना अपि सोढा। महानुभावोऽयं प्रकृत्या धीरः, प्रशान्तः गम्भीरश्च आसीत्। १९२९तमे वर्षे स्वगुणैरनेन कांग्रेसस्य प्रधानपदम् अलङ्कृतम्। तदानीमेव भारतवर्षस्य पूर्णस्वराज्यस्य घोषणापि सम्भूता। तस्मिन् समये पं. जवाहरलालः भारतीयजनतायाः हृदयसम्राट् सञ्जातः। अनेनैव स्वतन्त्रभारतस्य एषः प्रथमः प्रधानमन्त्री अभवत्।
तस्मिन् गौरवास्पदे स्थाने स्थित्वा अनेन महापुरुषेण बहुविधा राष्ट्रसेवा कृता आसीत्। पं. जवाहरलालः सदैव देशस्य विकासाय प्रयत्नम् अकरोत्। शान्तिदूतो भूत्वा सः विश्वस्य परिभ्रमणम् अकरोत् । अनेन भ्रमणेन विश्वे भारतदेशस्य गौरवम् अवर्धत्। महापुरुषोऽयं जगतः अशान्ति कलहं च दूरीकर्तु वाञ्छति स्म। विषयेऽस्मिन् अस्य महान् प्रयत्नः आसीत्।
सम्पूर्ण विश्वे शान्तेः संस्थापनार्थ अनेन महापुरुषेण ‘पञ्चशील’ नामकाः पञ्चसिद्धान्ताः अपि विश्वस्य समक्षे प्रस्तुताः, विश्वस्य अधिकसंख्यकैः देशैः एते सिद्धान्ताः स्वीकृताः अपि। अनेन भारतस्य गौरवं तस्मिन् काले विश्वसम्मती सम्यक्तया संस्थापितम्। अनेन प्रकारेण वक्तुं शक्यते यत्, गान्धिमहाभागः भारते स्वराज्यं प्रापयत्, किन्तु पं. जवाहरलाल नेहरूः द्वारा अस्य स्वातन्त्र्यस्य संरक्षा कृता।
अस्य व्यक्तित्वम् अतीव आक र्षकम् आसीत्। बहुमुखी अपि। ज्ञान-विज्ञाने, राजनये, साहित्ये, कलासु च अस्य महती अभिरुचिः अभवत्। एषः महान् लेखकः अपि आसीत्। अनेन बहूनि पुस्तकानि लिखितानि तेषु ‘डिस्कवरी आफ इण्डिया’, ‘विश्व इतिहास की झलक’, ‘मेरी कहानी’, ‘आत्मकथा’ इत्यादीनि प्रसिद्धानि सन्ति। एताः सम्पूर्णाः कृतयः विश्वसाहित्ये प्रतिष्ठाम् अलभन्त।
सर्वाधिक लोकप्रियः जननायकोऽयं बालकैः सह महत् प्रेम अकरोत्। अतः तैः सः ‘चाचा नेहरु’ इत्युपाधिना विभूषितः आसीत्। वर्तमानभारतस्य वास्तविकः निर्माता वस्तुतः सः एव। अस्य जन्मदिवसः प्रतिवर्षे भारते ‘बालदिवस’ रूपेण सम्पाद्यते। आजीवनम् असौ देशसेवायां निरतोऽभवत्। अस्यैव सुयोग्या पुत्री श्रीमती इन्दिरागान्धी स्व गुणैः योग्यतया च भारतस्य प्रधानमन्त्री पदम् अलङ्कृतवती। अस्याः विषये उक्तिरेषा चरितार्था भवति-
“वरमेका गुणी पुत्री न च पुत्रशतान्यपि “
यद्यपि महापुरुषोऽयं मई मासस्य सप्तविंशति तारिकायां पञ्चतत्त्व-विलीनो ऽभवत्। पुनरपि सः भारतीयानां हृदयेषु अद्यापि स्थितोऽस्ति भविष्येऽपि स्थास्यति, इति। केनचित् कविना सत्यमेव कथितम्-
“परिवर्तिनि संसारे मृतः को वा न जायते ।
सः जातो येन जातेन देशः याति समुन्नतिम् ।।”
वस्तुतः महापुरुषोऽयं कण्ठहार: भारतमातुः अग्रदूतः विश्वशान्तेः, प्रियो नेता जनानां, विजेता स्वातन्त्र्ययुद्धस्य, लेखकः प्रौढ ग्रन्थानाम्, अस्य सम्माने अस्माकं मस्तकः सदैव नमिष्यति।