सदाचारः | Essay on Morality in Sanskrit

0
10518
Essay on Morality in Sanskrit

सदाचारः


सतां सज्जनानाम् आचारः ‘सदाचारः ‘इत्युच्यते। येन प्रकारेण सज्जनाः संसारे, परिवारे, अन्यैः जनैः सह आचरन्ति व्यवहारं कुर्वन्ति वा, सः एव आचारः सदाचारः भवति। विषयेऽस्मिन् शास्त्रेषु अपि निगदितम्-

“आचारलक्षणो धर्मः सन्तश्चरित्रलक्षणाः ।
साधूनाञ्च यथावृत्तम्, एतदाचारलक्षणम् ॥”

अस्मिन् संसारे मनुष्यस्य यानि उन्नतिसाधनानि तेषु सदाचारस्य सर्वोत्कृष्टं स्थानम् अस्ति। आरम्भे तु सदाचारस्य पालने महत् कष्टं भवति, अन्ते तु जनः सुखी भवति, समाजे सर्वत्र तस्यादरो भवति। सदाचारिणः सर्वत्रैव सत्कारं, पूजां, प्रतिष्ठां सर्वोत्तमं च पदमपि लभन्ते।

किन्तु ये जनाः दुराचारिणः सन्ति ते समाजे सर्वथा अपमानिताः सुखशान्तिरहिताः गर्हिता च भवन्ति । ईदृशानां जनानां समाजे कथमपि कल्याणं शुभं वा न भवति। अस्मिन् संसारे प्रायः जनाः यशः कामयन्ते। सम्मानं च अभिलषन्ति। अन्ये च विद्यामुच्चपदं ऐश्वर्यं वा समाजे सम्मानहेतुस्वरूपेण मन्यन्ते, किन्तु साधनानि एतानि मानवं अल्पकालाय एवं सम्मानास्पदं कुर्वन्ति। एकेनैवाचारेण सदाचारेण वा मनुष्यः दीर्घकालं यावत् यशोभागी भवितुं शक्यते। यतोहि शास्त्रेषु अपि आचारस्य उच्च स्थानं प्रतिपादितम्। तत्र कथितम् अस्ति यत् सदाचारादेव धर्मो निस्सरति-

‘आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते ।
आचारप्रभयो वर्षों धर्मादायु र्विवर्धते ॥’

वस्तुतः सर्वेषु धर्मेषु आचारस्य महान् महिमा वर्णितः। आचारेण खलु मानवस्य चरित्रं प्रतिभाति। ये जनाः सम्यक्तया विनम्रभावेन आचरन्ति ते सज्जनाः कथ्यन्ते, किन्तु कुटिलरूपेण स्वार्थीरूपेण वा आचरणं कुर्वन्ति ते समाजे ‘दुर्जनाः’ इति अभिधीयन्ते।

अस्माकं शास्त्रेषु ‘आचारः परमोधर्मः’ इति घोषणा डिंडिमरूपेण कृता वर्तते। वस्तुतः यदि वयं सूक्ष्मदृष्ट्या विचारयामः तर्हि धर्मश्च आचारश्च एकमेव प्रतिभाति। यतोहि यानि धर्मस्य अङ्गानि तानि सर्वाणि आचारेऽपि दृश्यन्ते सदाचारी मानवः सर्वैः जनैः सह स्नेहेन प्रेम्णा वा मिलति, व्यवहरति, वार्ता करोति। यदि सः कमपि प्राणिनं क्षुधार्तं पिपासाकुलं कष्टापन्नं वा पश्यति तस्य हृदयं करुणया आद्रीभूतं जायते। सः अवश्यमेव तस्य सहायतां करोति। अस्मिन् कर्मणि तस्य प्राणा अपि संकटापन्नाः भवेयुः विषयेऽस्मिन् सः चिन्तां न आवहति। अस्माकं समाजे एतादृशानां जनानां सम्मानं भवति ते समाजे मूर्धनि तिष्ठन्ति।

एतद्विपरीतं ये आचारविहीनाः भवन्ति समाजे तेषा क्वचिदपि स्थानं न भवति। प्रभुत्वात्, ऐश्वर्यात्, पदवशाद् वा कालविशेषे ते सम्मानिताः स्युः, किन्तु सदाचाराभावे तेषां सम्मानं सर्वकालेषु न भवति। शास्त्रेषु आचारस्य महिमा अन्यप्रकारेण अपि वर्णितः दरीदृश्यते तत्र वैभवस्य वित्तस्य वा निरर्थकता प्रतिपादिता यदि जनः सदाचारी न स्यात्। विषयेऽस्मिन् महाभारतस्य श्लोकोऽयं द्रष्टव्यः-

“वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्तस्तु हतो हतः ।।”

एतदेव आङ्‌ङ्गल भाषायामपि भिन्नरूपेण प्रतिपादितम् – “यदि मानवस्य धनं नष्टं तर्हि न किञ्चिदपि, यदि स्वास्थ्यं विनष्टं तर्हि किञ्चिदिव नष्टम्, किन्तु यदि तस्य चरित्रं दूषितं भवति तदा तु तस्य दुर्भगस्य सर्वमेव विनष्टं जातम्, अतः जनैः सदा वृत्तस्य आचारस्य वा रक्षा करणीया।”

अद्यत्वे अस्माकं समाजे देशे वा सर्वत्रैव दुराचारस्य भ्रष्टाचारस्य वा राज्यं दृश्यते। हिंसायाः, चौर्यस्य, लुण्ठनस्य, व्यभिचारस्य सर्वत्रैव नग्नदृश्यानि अवलोक्यन्ते। यद्यपि समाजे सदाचाररक्षणार्थ विभागाः नियतीकृताः सन्ति, किन्तु तेषामपि आदेशान् उल्लंघ्य दुराचारिणः प्रति दिवसं स्वेच्छाचारिणः एव दरीदृश्यन्ते। अनेनैव कारणेन समाजात् सुखशान्तिश्च सर्वथा दूरीजाता।

अस्यां परिस्थितौ सदाचारस्य महती आवश्यकता वर्तते, अस्माकं समाजस्य कृते। अतः अस्माभिः ईदृशः प्रयत्नो विधेयः येन सर्वे जनाः सदाचाररताः भवेयुः। अनेन प्रयत्नेन मानवहृदयेषु पारस्परिक प्रेम, दया उदारता इत्यादीनां भावानां स्वतः एव आगमनं भविष्यति। अतः अस्माभिः सदैव सदाचारः पालनीयः।


LEAVE A REPLY

Please enter your comment!
Please enter your name here