महात्मा गान्धिः
अस्मिन् संसारे तस्य एव मानवस्य चरित्रं श्लाघ्यं भवति यः मानवानां कृते स्वस्य शरीरस्य वा समर्पणं करोति। ईदृशानां पुरुषाणां जीवनस्य लक्ष्यं परार्थं एव भवति। अस्मिन् जगति बहवः जनाः प्रतिदिनं जायन्ते म्रियन्ते च, किन्तु ते एव अजराः अमराश्च भवन्ति, ये जनाः स्वकार्ये सम्पूर्णां मानवतां उपकुर्वन्ति। तेषां पावनं चरित्रं स्मृत्वा खलु सर्वे जनाः सुखिनः आनन्दमग्नाश्च भवन्ति। परहितसम्पादनाय, संसारस्य कल्याणाय, धर्मसंस्थापनार्थाय च तेषां अवतारं पृथिव्यां भवति। ईदृशानां वै पुरुषाणां महापुरुषाणां वा कृते एतत् कथ्यते-
परोपकारैक धियः स्वसुखाय गतस्पृहाः ।
जगद्धिताय जायन्ते महात्मानो महाव्रताः ॥
ते महापुरुषाः यशः काये सदैव जगति अस्मिन् विराजन्ते। ईदृशः एव महापुरुषः ‘महात्मा गान्धि’ आसीत्। अस्यां पृथिव्यां नैव कोऽपि ईदृशः जनः यः तस्य नाम ‘भारतस्वातन्त्र्य संस्थापकत्वेन “सत्य अहिंसादि महाव्रती’ रूपेण न जानाति । युगप्रवर्तकेन अनेन कर्मयोगिना भारतवर्ष स्वतन्त्रं कारयितुं स्व जीवनं समर्पितम्। अनेनैव न केवलं भारतवर्षस्य अपितु विश्वस्य महापुरुषेषु अस्य गणना उत्कृष्टत्वेन क्रियते जनैः।
गान्धिमहाभागस्य वास्तविकं नाम ‘मोहनदास’ आसीत्। अस्य पिता कर्मचन्द्रमहोदयः राजकोटनगरस्य प्रख्यातः अधिवक्ता आसीत्। माता च अस्य ‘पुतलीबाई’ एका सतीसाध्वी, धर्मपरायणा महिला आसीत्। महात्मागान्धिनः जन्म गुजरातप्रान्ते पोरबन्दर नामके नगरे अक्टूबर मासस्य द्वितीयतारिकायां १८६९ ईसवीये वर्षे राजकोटराज्यस्य मन्त्रिगृहे अभवत्।
श्रीकर्मचन्दगान्धी महोदयस्य चतस्रः सन्ततयः आसन्। तेषु सर्वेषु मोहनदासः कनिष्ठः आसीत्। एषः शैशवकालादेव मातृ-पितृ सेवापरायणः धार्मिकः, सत्यप्रियः, सरलः, सात्विकः, मितभाषी च आसीत्। अस्य प्रारम्भिकी शिक्षा ग्रामे सम्पन्ना, तदनन्तरम् अनेन राजकोटनगरे शिक्षा प्राप्ता। अनन्तरं एषः विधानशास्त्रं पठितुं इंग्लैण्ड देशम् अगच्छत्। विदेशे उषित्वा अपि अनेन स्वमातुः समक्षे कृता मांसमदिराधूम्रपानपरित्यागरूपिणी प्रतिज्ञा पूर्णरूपेण परिपालिता।
विधिपरीक्षाम् उत्तीर्य तेन मुम्बईनगरे निवासः कृतः। तदानीम् एव सः एकदा एकं अभियोगम् अभिलक्ष्य अफ्रीका देशम् अगच्छत्। तत्र भारतीयानां दुर्दशां दृष्ट्वा अतीव उद्विग्नो जातः। अतएव अतीव करुणाद्रो भूत्वा तत्रैव तेषां कृते असौ सत्याग्रहं कृतवान्। ततः आगत्य सः स्वदेशवासिनाम् जनानाम् अतीव दीनां हीनां दशाम् अवलोकयामास।
अतः तेन परतन्त्रतां भारतीयानां दुर्दशायाः कारणं विचिन्त्य भारतस्य स्वाधीनतायै दृढनिश्चयः कृतः तथा च एतदर्थ अनेकानि आन्दोलनानि अपि सञ्चालितानि। महात्मागान्धिनः द्वे अस्त्रे प्रसिद्धौ आस्ताम्- ‘अहिंसा सत्याग्रहश्च’। आभ्यां द्वाभ्याम् अस्त्राभ्याम् एव तेन भारतदेशः स्वतन्त्रः कारितः। एतदर्थं सः अनेकशः कारागारम् अपि गतवान्।
महापुरुषोऽयं न केवलं स्वातन्त्र्यवीरः, अपितु समाजसुधारकः अपि आसीत्। अयं महात्मा सर्वान् अपि प्राणिनः समभावेन अपश्यत्। अस्पृश्यता निवारणार्थ, अशिक्षा-दूरीकरणार्थ सः सतत् प्रयासं कृतवान्, साफल्यं च गृहीतवान्।
महात्मागान्धिना अस्माकं देशस्य यादृशी सेवा कृता समर्पण भावनया, अनेन सर्वेभारतवासिनः तं ‘बापू’ इति नाम्ना कथ्यन्ते। वस्तुतः सः अतीव सरलः विनम्रश्च आसीत्। अनेनैव स्नेहेन जनेषु सः ‘महात्मा’ इति नाम्ना प्रसिद्ध अभवत्।
अस्य विवाहः ‘कस्तूरबा’ इति नाम्नि कन्यया सह अभवत्। सा अतीव धर्मपरायणा , पतिपरायणा, स्नेहसिक्ता च आसीत्। पश्चात् सा खलु ‘बा’ इति अभिधानेन विख्याता। सत्यमेव सा महात्मागान्धी महोदयस्य सहधर्मिणी आसीत्, यतोहि राजनीतिक्षेत्रेऽपि तया अस्य धर्मस्य निर्वाहः कृतः। कृशदेहो ऽपि महात्मा गान्धिः लोहपुरुषः आसीत्। अहिंसायाः दूतोऽयं सदैव देशहिताय अत्र निवासिनां क्लेशनिवारणाय एव चिन्तयति स्म। अनेन अनेकशः विदेशवस्तूनां बहिष्कारं कृत्वा स्वदेशीवस्तूनां प्रचारः कृतः।
वस्तुतः तस्य महात्मनः उपकारान् स्मारं स्मारं वयं सर्वे भारतवासिनः तस्य समक्षे अवनतमूर्धानः भवन्ति। अतीव दुःखस्य कष्टस्य च विषयोऽयं एतादृशोऽपि ‘महात्मा’, अस्माकं सर्वेषां ‘बापू’ जनवरी मासस्य त्रिंशततमे दिनाङ्के १९४८ तमे वर्षे नाथूराम गोड से नाम्ना विकृतेन युवकेन गोलिकाप्रहारेण कथावशेषः कृतः। तदानीं समये महात्मागान्धिः महाभागः विरलाभवने प्रार्थनासभायां गच्छति स्म।
महापुरुषं एनं वयं भूयो भूयः नमामः । विश्ववन्द्यो अयं महात्मा सत्यार्थेषु वस्तुतः अस्माकं ‘राष्ट्रपिता’ अस्ति। यद्यपि स्थूल शरीरेण सः अस्माकं मध्ये नास्ति, किन्तु यशः कायेन सः अस्माकं सर्वेषां हृदयेषु विराजते। केनापि कविना सत्यमेव उक्तम्-
“वन्दे तं मनुजदेहधारिणं गान्ध्याः दैवं परम्”