पुस्तकालयः
पुस्तकानाम् आलयः, इति पुस्तकालयः कथ्यते। यस्मिन् स्थाने बहूनि पुस्तकानि एकत्रीकृत्य विविधविषयाणां, तेषां संरक्षणं, सर्वेषां पाठकानां कृते पाठनव्यवस्था क्रियते तत् स्थानं ‘पुस्तकालयः ‘इति नाम्ना कथ्यते। पुस्तकालयः विद्यालयस्य महाविद्यालयस्य नगरस्य ग्रामस्य देशस्य वा भवितुं शक्यते। विद्यालयस्य महाविद्यालयस्य पुस्तकालये तस्यैव विद्यालयस्य महाविद्यालयस्य वा छात्राः अध्येतुं शक्यन्ते, किन्तु नगरस्य देशस्य वा पुस्तकालये सर्वे नागरिकाः पठितुं शक्यन्ते। ते सर्वे तस्य सदस्यतां ग्रहीत्वा तस्मिन् प्रवेष्टुं अर्हन्ति, अध्ययनं च कर्तुं पारयन्ति। केचन जनाः पुस्तकालयस्य आजीवनसदस्यो भूत्वा तत्र पुस्तकानि आप्नुवन्ति पठन्ति च।
पुस्तकालयेषु विविधानां विषयाणां पुस्तकानि संग्रहीतानि भवन्ति। तत्र बहूनि समाचारपत्राणि अपि आयान्ति। बहूनां पत्रिकानाम् अपि तत्र पठनव्यवस्था भवति। नियमितसमये गत्वा तत्र पाठकाः अध्येतारः वा नाना पत्रपत्रिकाः विविधविषयाणां च पुस्तकानि पठन्ति। केषुचित् पुस्तकालयेषु निर्धारितं शुल्कं दत्वा पुस्तकानि गृहम् अपि नेतुं शक्यते। निर्धारित समयावधिपर्यन्तं तानि पुस्तकानि गृहेऽपि पठितुं शक्नोति कोऽपि जनः। पुस्तकालये जनानां ज्ञानवर्धनं मनोरञ्जनं च भवति।
शिक्षायाः प्रचारे पुस्तकालयानां महत्त्वपूर्णस्थानं विद्यते। निर्धनाः जनाः, छात्र – छात्राश्च तत्र गत्वा बहूनि बहुमूल्यानि पुस्तकानि पठितुं शक्नुवन्ति। अनेन तेषां महान् उपकारः सहयोगश्च भवति।अनुसंधातारोऽपि पुस्तकालयेषु गत्वा स्वविषयसम्बन्धिनी पुस्तकानि पठन्ति। पुस्तकालयेषु समाचारपत्राणि पठित्वा नागरिकाः देशविदेशयोः समाचारान् सरलतया जानन्ति। कस्यापि विद्यालयस्य महाविद्यालयस्य वा स्तरस्य अनुमानं तस्य पुस्तकालयेन सहजैव भवति।
अस्माकं देशे सम्प्रति बहवः पुस्तकालयाः सन्ति। पुरा अपि ‘तक्षशिला नालन्दा’ इत्या-ख्योः विश्वविद्यालययोः सम्पन्नौ पुस्तकालयौ आस्ताम्। श्रूयते एतत् यत् मुगलैः आक्रमणसमये तयोः पुस्तकालयोः अग्निदाहः कृतः। येन बहूनि पुस्तकानि ज्वलितानि विनष्टानि च। तत्र भूयसी संख्या पुस्तकानाम् आसीत्। वर्तमानसमयेऽपि अस्माकं देशस्य बहवः पुस्तकालयाः अतीव सम्पन्नाः मन्यन्ते। तेषु गुरुकुलकांगडीविश्वविद्यालयस्य, हरिद्वारे, सम्पूर्णानन्दसंस्कृत-पुस्तकालयस्य, वाराणस्यां तत्रैव हिन्दू विश्वविद्यालयस्यापि दिल्ली विश्वविद्यालयस्य, दिल्ली नगर्यां, कलकत्ता नगरे, पूना नगरे, बडौदा नगरे, मुम्बई नगर्यां च उल्लेखनीयाः सन्ति।
अस्माकं देशे सम्पन्नाः जनाः पुस्तकालयानां महत्त्वं जानन्ति। अनेनैव ते पुस्तकालयानां निर्माणाय भूयसीं धनराशिं दानं कुर्वन्ति। तेषां विश्वासः यत् अनेन पुस्तकालयेन अस्माकं देशवासिनः सर्वे शिक्षिताः ज्ञानिनश्च भविष्यन्ति । तेन विश्वे भारतवर्षस्य गौरवं प्राचीनं पुनः वर्धिष्यति। अस्माकं सर्वकारः अपि पुस्तकालयानां स्थापनाय तेषां संवर्धनाय संरक्षणाय व्यवस्थायाः कृते च बहुधनं ददाति। अनेनैव तेषां पुस्तकालयानां स्थितिः सम्पद्यते। पुराकाले भारतस्य नृपैः अपि स्वराज्ये राजभवने वा सम्पन्नानां पुस्तकालयानां व्यवस्था कृता आसीत्। तेषु जोधपुरस्थितः पुस्तकालयः उदयपुरे, जयपुरे भरतपुरे, कोटा नगरे च स्थितानां पुस्तकालयानां नामोल्लेखः विशेषरूपेण कार्यः।