उद्योगः
अस्मिन् संसारे सर्वे जनाः सुखं वाञ्छन्ति, अनेनैव कारणेन ते अहर्निशं परिश्रमं कुर्वन्ति। परिश्रमेण विना नैव कस्यापि जनस्य करयापि कार्यस्य सिद्धि र्भवति। कार्यसिद्धिस्तु वस्तुतः उद्योगेनैव भवति। यदि वयं विषयेऽस्मिन् सूक्ष्मदृष्ट्या चिन्तयेम, तर्हि पश्यामः यत् देवाः अपि स्वकार्यसिद्धिकरणे उद्योगाभावे समर्थाः न भवन्ति। अनेनैव तेऽपि कार्यसिद्धयर्थ भूमण्डलेऽवतारं गृह्णन्ति। अतः सिद्धमेतत् यत् परिश्रमं विना दैवमपि पंगुः भवति। अनेनैव केनापि कविना सम्यक् एव भणितम्-
यथा होकेन चक्रेण न रथस्य गतिर्भवेत् ।
तथा पुरुषकारेण विना दैवं न सिद्धयति ।।
संसारेऽस्मिन् द्विविधा जनाः दृश्यन्ते। तयोः एके परिश्रममेव सफलतायाः प्रमुखं कारणं मन्यन्ते। अन्ये तु भाग्यवादिनः भवन्ति। तेषां मते ‘भाग्यं फलति सर्वत्र, न विद्या न च पौरुषम्’ इति, ये जनाः भाग्यवादिनः भवन्ति तेषां जीवने नैराश्यमेव भवति । संसारेऽस्मिन् वस्तुतस्तु ते का पुरुषाः भवन्ति, एतादृशाः आलस्ययुक्ताः जनाः किमपि न लभन्ते। अनेनैव कथ्यते-
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः,
दैवेन देयमिति का पुरुषाः वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या,
यत्ने कृते यदि न सिद्धयति कोऽत्र दोषः ।।
स्वयमेव विचारयन्तु भवन्तः यदि कृषकः स्वक्षेत्रे परिश्रमं न करोति, क्षेत्रं न कर्षति, बीजानि न वपति, काले शरयानि जलेन न सिञ्चति, तर्हि किं सः स्वादुफलं आस्वा-दयति। कथं सः अन्येभ्यः जनेभ्यः स्वादिष्टान्नस्य उत्पत्तिं कर्तुं शक्यते।
एवमेव सिद्धान्तोऽयं छात्राणां विषयेऽपि प्रतीयते सत्यरूपेण, यदि कोऽपि छात्रः परीक्षायां परिश्रमं न करोति, तर्हि केन प्रकारेण सः तस्यां साफल्यं प्राप्तुं शक्यते। साफल्यार्थे तु तेन अहर्निशं उद्योगः कर्तव्यः एव।
वस्तुतः कथनमेतत् तेषां भ्रान्तिमूलकं सत्यात् परोऽस्ति । कुतः भवन्तः स्वयमेव विचारयन्तु यत् ये जनाः भाग्यं वदन्ति, तत् भाग्यं वस्तुतः किं वस्तु ? सूक्ष्मदृष्ट्या विचारयामः चेत् तर्हि जानीमः यत् भाग्यं तु पूर्वजन्मकृतानां कर्मणां निर्मितिः एवास्ति । अतः कर्मणः मुक्तिः कथं स्यात् ? तत् कर्म अस्मिन् जन्मनि भवेत् पूर्वजन्मनि वा?
अनेनैव कारणेन विश्वस्य सम्पूर्णे साहित्ये आलस्यं शरीरस्थो महान् रिपुः कथ्यते । आलस्यवशात् कोऽपि प्राणी मृत इव तिष्ठति, अन्ते सः विनश्यत्येव, किन्तु परिश्रमेण जनः उन्नतिं प्राप्नोति, प्रतिष्ठां लभते, लक्ष्मीं आलिङ्गति। वस्तुतः परिश्रमः जनस्य कस्यापि प्राणिनः वा सर्वोत्कृष्टः बन्धुः वर्तते। अतः सत्यमेव उक्तम्-
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धु यं कृत्वा नावसीदति ।।
संसारेऽस्मिन् कोऽपि जनः जन्मतः महान् लघुः वा न भवति, किन्तु अस्मिन् जन्मनि सः यादृशानि कर्माणि करोति, तादृशः एव सः भवति । अथकपरिश्रमेणैव सः महापुरुषो • भवति। भाग्यवादिनस्तु, निरुद्योगिनः मन्दा इव आचरन्ति ते सदैव यत्नेन विना सुखं वाञ्छन्ति, किन्तु साफल्यं न लभन्ते। ते प्रायः स्वपन् एव स्वकालं नयन्ति विनाशयन्ति वा। अनेनैव ते कदापि स्व परिवारस्य स्वस्य वा परिपोषणं कर्तुं समर्थाः न भवन्ति। सिंहः यद्यपि शक्तिसम्पन्नो भवति, किन्तु सोऽपि यदि परिश्रमं न करोति, तर्हि स्वाहारमपि न लब्धुं शक्यते। अनेनैव कथ्यते-
उद्योगेनैव हि सिद्धयन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।
उद्योगेनैव जनाः विद्वांसः, वैज्ञानिकाः, धनिकाः, यशस्विनश्च भवन्ति। यः परिश्रमं करोति सः वै विजयता लभते। ईश्वरोऽपि तस्य सहाय्यं करोति येन स्वस्य सहायता क्रियते। अल्पीयसी पिपीलिका कठोरपरिश्रमेणैव विशालमपि पर्वतं लङ्ङ्घयते, किन्तु न गच्छन् वैनतेयोऽपि एकं पदं न गच्छति। अतः अस्माभिः सदैव उद्योगो विधेयः। सत्यमेव कथितम् विषयेऽस्मिन्-
उद्यमी लभते सिद्धिमयोग्योऽपि सुनिश्चितम् ।
अनुरूर्गगनस्यान्तं प्रयात्येव दिने दिने ।।