भारतीया संस्कृतिः
सम् उपसर्गपूर्वकात् कृ धातोः क्तिन् प्रत्ययेन संस्कृतिः शब्दो निष्पद्यते। कस्यापि देशस्य राष्ट्रस्य वा जनैः योऽपि व्यवहारः आचारो वा क्रियते, तत् सर्वं तस्य देशस्य संस्कृतिः कथ्यते।
विश्वस्य सर्वासु संस्कृतिषु भारतीया संस्कृतिः प्राचीनतमा उत्कृष्टा च वर्तते। अस्याः वैशिष्ट्यम् तदेव यत् अनेकैः वैदेशिकैरनेकशः अस्याः विनाशाय प्रयत्नं कृतम्, किन्तु नैवेषा विनष्टा, अपितु अद्यापि अक्षुण्णा एव दृश्यते।
वस्तुतः अस्यां संस्कृतौ ईदृशानि महत्त्वपूर्णानि तत्त्वानि सन्ति कानिचित्, यैरेषा दीर्घकालानन्तरमपि अद्य सर्वोत्कृष्टतामक्षुण्णतां च भजते। अस्याः सम्यक् दर्शनाय अस्माभिः संस्कृतसाहित्यस्य अध्ययनम् अपेक्षितं वर्तते। संस्कृतभाषायां निवद्धं प्रत्येकं काव्यं भारतीय-संस्कृतेरुदात्तरूपं प्रख्यापयति।
भारतवर्षस्य प्रतिग्रामेऽस्याः स्वरूपं द्रष्टुं शक्यते। वस्तुतः अद्यापि वयं स्वसंस्कृतिं प्रति महत्गौरवम् अनुभवामः। अस्याः मूलाधारो ज्ञान-विज्ञानागार-स्वरूपाः वेदाः सन्ति वेदाश्चाखिल विश्वस्य भूमण्डलस्य वा प्राचीनतमानि पुस्तकानि सन्ति। अनेनैव संस्कृतिरेषा विश्वसंस्कृतिषु प्राचीनतमास्ति। ऋग्वेदे भणितम्-
“सा प्रथमा संस्कृति विश्वधारा “
वस्तुतः इयं संस्कृतिः लोकमङ्गलकारी विश्ववन्धुत्व भावनया च परिपूरिता दृश्यते। अहिंसा अस्याः मूलमन्त्रम् एव अस्ति। परोपकार भावनाभिरेषा परिपूर्णा विद्यते। ‘कर्मानुसारमेव पुनर्जन्म भवति’ सिद्धान्तेऽस्मिन् अस्याः संस्कृतेः महती आस्था दृश्यते। समन्वयभावना अस्याः महत् वैशिष्ट्यम्। विदेशेभ्यः आगताः यहवः जातयः, अत्रागत्य अनया सह सम्मील्य एकीभूताः सञ्जाताः।
वर्णाश्रमव्यवस्थापि अस्या एका अन्या मौलिकी महत्त्वपूर्णा च विशेषता, अनया व्यवस्थया भारतीयसमाजः चतुर्षु वर्णेषु विभक्तः ‘ब्राह्मण क्षत्रिय वैश्य-शूद्राः’ इति। अस्याः व्यवस्थायाः उद्देश्योऽयं, यत् समाजे विविधेषु कार्येषु सौख्यं स्यात्। प्रारम्भे व्यवस्थैषा कर्माधारिता आसीत्, किन्तु अद्यत्वे जन्माघारिता सञ्जाता।
‘मानवस्य सर्वाङ्गीणत्वेन विकासो भवेत्’ इति आश्रमव्यवस्थायाः उद्देश्योऽऽसीत्। अनेनैव जनं शतायुं परिकल्प्य तस्य जीवनं चतुर्भागेषु विभक्तं कृतमासीत्, ‘ब्रह्मचर्य गृहस्थ-वानप्रस्थ-संन्यासश्चेति।’ सर्वा एव एषाश्रमव्यवस्था उच्यते। भारतीया संस्कृतिः कृषिप्रधाना संस्कृतिः, अस्यां संस्कृतौ कृषेः महत् महत्त्वमस्ति। अत्र गोः गङ्गायाश्च वैशिष्ट्यं महत्त्वमपि च परिदृश्यते। अत्र तीर्थानां देवानाञ्च वन्दनं भावातिरेकेण भवति।
अस्याः संस्कृतेरेतदेव वैशिष्ट्यम्, यत् यानि यानि वैशिष्ट्यानि अपरेषां संस्कृतीनां तानि तानि अनया सहजेनैव स्वीकृतानि, आत्मसात् कृतानि वा। अस्यां संस्कृतौ ये जनाः निवसन्ति, ते सर्वे परमं संतोषमनुभवन्ति, कुतः संस्कृतिरेषा यत्रकुत्रापि भेदभावं न परिगृह्णाति। ‘वसुधैव कुटुम्बकम्’ इति भावनया इयं संस्कृतिः ओतप्रोता च दरीदृश्यते। मानवताया: अत्र पूजा भवति। अस्याः मूलमन्त्रो वै एषोऽस्ति-
सर्वेभवन्तु सुखिनः, सर्वे सन्तु निरामयाः।
सर्वेभद्राणि पश्यन्तु, मा कश्चिद् दुःख भाग्भवेत् ।।