संस्कृतस्य महत्त्वम् | Essay on Importance of Sanskrit Language in Sanskrit

0
10551
Sanskrit Essay on Importance of Sanskrit Language

संस्कृतस्य महत्त्वम्

अस्मिन् संसारे अनेकानां भाषाणां प्रयोगो भवति। वस्तुतः भाषा भावानाम् अभिव्यक्तिमात्रिका भवति, किन्तु यदापि यस्यापि भाषायां अधिकाधिकस्य उपयोगी साहित्यस्य निर्माणं भवति, तदानीमेव तस्याः भाषायाः महत्त्वं वर्धते। एतत् सर्वं संस्कृतस्योपरि अक्षरशः परिघटते।

इयं भाषा न केवलं भारतवर्षस्य, अपितु विश्वस्य प्राचीनतमा भाषा, अतएव अस्याः महत्त्वमतीव वर्तते। अस्यां भाषायां सर्वाधिकस्य वाङ्‌मयस्य संरचना जाता, एषा भाषा अतीव वैज्ञानिकी च विद्यते। अस्याः पाणिनीयं व्याकरणमतीव वैज्ञानिकमस्ति । संस्कारयुक्ता परिष्कृता चेयं भाषा ‘संस्कृत’ इति कथ्यते। अस्याः अन्यत् नाम देवभाषा, देववाणी, सुरवाणी, गीर्वाणवाणी चाप्यस्ति। एभिरपि अस्याः भाषायाः महत्त्वं परिवर्धते।

‘विद्वांसो हि देवाः’ अनेनैव कथनेन भाषा एषा देववाणी अस्ति, कुतः पूर्वकाले एषा भाषा विद्वद्भिः परस्परदैनिकव्यवहारे प्रयुज्यते स्म। विश्वस्य सर्वाधिक प्राचीनतमः ग्रन्थः ऋग्वेदोऽस्यामेव भाषायां निबद्धोऽस्ति। यदि वयं प्राचीनज्ञानविज्ञानसंस्कृतिं प्रति जिज्ञासवः भवेम, तर्हि संस्कृतभाषा खलु अस्माकं सहाय्या भविष्यति, एतदर्थं अस्या एव भाषायाः अध्ययनं अपेक्षितं अस्ति।

संस्कृतभाषा न केवलं भारतवर्षस्य, अपितु विश्वस्य अनेकानां भाषाणां जननी अस्ति। भारतवर्षः अनेकतायाः उदाहरणरूपः देशो विद्यते, यदि वयं अनेकतायां एकतायाः परिदर्शनं कर्तुं वाञ्छामः, यदि वयं भाषागतवैमनस्यं दूरीकर्तुमिच्छामः, तर्हि अस्माभिः भाषा एषा वर्तमानसमये राष्ट्रभाषारूपेण प्रतिष्ठिता कर्तव्या।

वस्तुतः इयं भाषा खलु सर्वेषां भारतीयानां मानसं एकस्मिन् सूत्रे निबद्धं कर्तुं शक्यते। संस्कृतभाषायाः साहित्यभण्डारोऽपि विपुलः ज्ञानविज्ञानसम्पन्नोऽस्ति। सम्पूर्ण वैदिकं साहित्यं आध्यात्मिकज्ञानविज्ञानस्याकरो वै वर्तते। महाभारतं रामायणञ्च द्वे अस्याः भाषायाः महत्त्वपूर्ण रत्ने स्तः।

महाकवि-कालिदास भवभूति माघ-हर्ष-चरक सुश्रुत कणाद गौतम-आर्यभट्टादीनाम् अनेकेषां विदुषां कृतिभिः भाषा एषा समृद्धा विद्यते। राजनीतेः अप्रतिमो ग्रन्थः ‘कौटिल्यार्थशास्त्रम्’, मनुविरचिता ‘मनुस्मृतिः ‘च अस्यामेव भाषायां विरचिता अस्ति। माधुर्यमस्याः भाषायाः महत्त्वपूर्णा विशेषता, अनेनैव कथ्यते विद्वद्भिः ‘भाषासु मधुरा रम्या दिव्या गीर्वाण-भारती’।

उपर्युक्तेन संक्षिप्तेन विवरणेन स्पष्टमेतत् भवति यत् संस्कृत-भाषायाः अनेकदृष्टिभिः अत्यधिकं महत्त्वमस्ति। अतः अस्माकं भारतवासीनां पुनीतकर्तव्यमेतत् यत् स्व गौरवास्पदमतीतमाधृत्य भविष्यनिर्माणाय संस्कृतस्य प्रचारस्य प्रसारस्य प्रयासो विधेयः।

संस्कृतस्य खलु उन्नतिभिरस्माकं सर्वेषामुन्नतिः सम्भाविता। ये जनाः स्वराष्ट्रस्य गौरवपूर्णमितिहासं स्मरन्ति ते खलु सफलतायाः चरमोत्कर्ष लभन्ते।


LEAVE A REPLY

Please enter your comment!
Please enter your name here