विद्या (विद्यायाः महत्त्वम्) | Essay on Importance of Knowledge in Sanskrit

0
10507
Essay on Importance of Knowledge in Sanskrit

विद्या (विद्यायाः महत्त्वम्)

ज्ञानार्थकाद् ‘विद्’ धातोः ‘क्यप कृत्वा स्त्रीप्रत्ययः’ टाप’ इति संयुज्य विद्या शब्दो निष्पद्यते। मानवजीवने विद्यायाः महत्त्वमतीव वर्तते। विद्ययैव जनः संसारेऽस्मिन् सुखान् सर्वान् लभते, न केवलं मृत्युलोके अपितु परलोकेऽपि सः विद्यया खलु सुखसम्पन्नो भवति। अनेनैव कारणेन शास्त्रेषु अस्माकं कथ्यते –

‘विद्ययाऽमृतमश्नुते’ ‘विद्यया विन्दतेऽमृतम्’


विद्यायाः अभावे मनुष्यः पशुतुल्यः। विद्या मानवस्य प्रच्छन्नं धनमस्ति। विद्ययैव जनाः संसारेऽस्मिन् यश-सुख-भागिनः भवन्ति। यदि मनुष्यः विदेशं गच्छेत्, तर्हि विद्या खलु तस्य सर्वाधिकं श्रेष्ठं मित्रं भवति। अनेनैव कारणेन महाकविना भर्तृहरिणा कथितम्-

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नं गुप्तं धनं,
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता,
विद्या राजसु पूजिता न हि धनं विद्याविहीनः पशुः ।।

संसारेऽस्मिन् विद्या वस्तुतः अतीवाद्भुतं धनमस्ति, कुतः अन्यानि धनानि व्यये कृते विनष्टानि भवन्ति, किन्तु विद्या नामकं धनमेतत् तु व्यये कृतेऽपि निरन्तरं वर्धते, सञ्चयात् खलु विनष्टं भवति। उक्तञ्च-

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति ।
व्ययतो वृद्धिमायाति, क्षयमायाति सञ्चयात् ।।

विद्या नामकस्य धनस्यास्यैका अन्यापि विशेषता, कोऽपि चौरः एनं धनं चोरयितुं न शक्यः, नैव धनमेतत् राजाऽपि बलपूर्वकं ग्रहीतुं शक्यते, एवमेव धनमेतत् भ्रातृभिः नैव विभज्यते, भारोऽपि खलु नैव भवति धनेऽस्मिन्, अनेनैव धनमेतत् अन्येषु धनेषु मुख्यतां भजते। उक्तञ्च –

न चौर्यहार्यं न च राज्यहार्यं, न भ्रातृभाज्यं न च भारकारि ।
व्ययेकृते वर्धत एव नित्यं, विद्याधनं सर्वधनं प्रधानम् ।।

विपत्सु पतितोऽपि विद्वज्जनः सरलतापूर्वकं निस्सरति स्व विद्याबलेन, किन्तु मूर्खस्तु विनाशमेव लभते। न केवलमेतदपितु विद्वान् विद्यया ग्रामं, स्वदेशं, समाजं, राष्ट्रमपि च रक्षति, किन्तु मूर्खाजनः एकल एव स्व मूर्खतावशात् सम्पूर्ण वै राष्ट्रं विनश्यति।

विद्यामेवाधिकृत्य विश्वस्यानेके देशाः स्वप्रभावं स्थापितं कर्तुं समर्थाः जाताः। वर्तमानसमये तेषां देशानां प्रभावः वर्चस्वं वा सर्वत्र खलु प्रसरति। वस्तुतः विद्या मनुष्यं मातावत् रक्षति, पितातुल्यः हितकारिषु विषयेषु नियुज्यते, मानवस्य विषादं दूरीकृत्य कल्पलतेव सुखीकरोति। अतएव केनचित् कविना सम्यक् एव कथितम्-

मातेव रक्षति पितेव हिते नियुङ्‌क्ते,
कान्तेव चाभिरमयत्यपनीय खेदम् ।
लक्ष्मीं तनोति वितनोति च दिक्षु कीर्ति,
किं किं न साधयति कल्पलतेव विद्या ।।

अनया एव विद्यया जनो विनम्रो भवति, अनया खलु मानवेषु शिष्टतायाः सञ्चारो भवति। तेषां यशश्चतुर्दिक्षु प्रसरति। अनेनैव कारणेन कविभिः विद्या नृपत्वादपि श्रेयस्करी कथिता –

विद्वत्त्वं च नृपत्वञ्च,
नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा,
विद्वान् सर्वत्र पूज्यते ॥

वस्तुतः राज्ञः पूजा तु स्वदेशे खलु भवति, यदि सः अन्यत्र गच्छति तर्हि तस्य सम्मानं स्वदेशवत् न भवति, किन्तु विदुषः सम्मानं तु यत्रापि सः गच्छति तत्रैव भवति, विश्वस्य कस्मिन्नपि देशे क्षेत्रे वा। भारतीयसंस्कृतौ मानवजीवनं चतुर्षु आश्रमेषु विभक्तमस्ति, तेषु एवाश्रमेषु प्रथमो ब्रह्मचर्यः आश्रमो विद्यते, अस्मिन्नेवाश्रमे मनुष्यः गुरुसमीपं विनयेन गत्वा विधार्जनं कुरुते। विद्यार्थिजीवने सः अथकपरिश्रमं करोति, तदैव सः विद्यारत्नं लभते अनेनैव कथ्यते विद्वद्भिः –

सुखार्थिनः कुतो विद्या, विद्यार्थिनः कुतो सुखम् ।
सुखार्थी वा त्यजेद् विद्यां, विद्यार्थी वा त्यजेद् सुखम् ।।

वस्तुतः भूमण्डलेऽस्मिन् यदपि सत्यं शिवं सुन्दरमस्ति, सर्वमेतत् विद्यायाः एव महिमा दृश्यते। विद्याविहीनः जनः विद्वत्समाजे तथैव न शोभते यथा हंसमध्ये बको न शोभनं प्रतिभाति। विद्या मनुष्यशरीरस्य सर्वोत्कृष्टमाभूषणमस्ति, विद्या समं किमपि मानवशरीरस्य कृते अन्यत् आभूषणं न विद्यते। अतः अस्माभिः सदैव विद्यायाः प्राप्त्यर्थ प्रयत्नो विधेयः।


LEAVE A REPLY

Please enter your comment!
Please enter your name here