सत्सङ्गतिः | Essay on Importance of Good Company in Sanskrit

0
10516
Essay on Good Company in Sanskrit

सत्सङ्गतिः

सज्जनानां सङ्गतिः सत्सङ्गतिः कथ्यते। मानवः एकः सामाजिकः प्राणी अस्ति, अनेनैव स एकलः स्थातुं न शक्यते। सत्यं तु एतत् यत् असारे संसारेऽस्मिन् नैव कोऽपि प्राणी संसर्गेण विना भवितुं स्थातुं वा शक्यते। न केवलं एतावत् वनस्पतयोऽपि संसर्गेण एव सुखिनः भवन्ति। एका लता वृक्षेण विना स्वजीवनं सम्यरूपेण जीवितुं न शक्यते, सा वृक्षस्या-वलम्बनं गृह्णात्येव।

पशुपक्षिणश्च स्वमित्रैः सह उषित्वा एव प्रसन्नाः भवन्ति। वनवासी मृगः अनेनैव कारणेन मृगीं विना व्याकुलो भवति। एवमेव चक्रवाकोऽपि चक्रवाकीं विना जीवितुं न शक्नोति। एतत् सर्वं शास्त्रप्रसिद्धमेव।

कथनस्य तात्पर्यमिदं यत् संसारेऽस्मिन् नैव कोऽपि जीवः एकलः स्वजीवनं धारयितुं शक्यते। यत्र कुत्रापि सः तिष्ठति, उत्तिष्ठति, खादति, पिबति, स्वपिति, आनन्दञ्चानुभवति, तस्य वातावरणस्य प्रभावः तस्योपरि भवत्येव, नैवात्र काऽपि विप्रतिपत्तिः दृश्यते। वस्तुतः जनः यादृश्यां संगतौ वसति, तादृशः एव प्रभावः तस्मिन् दरीदृश्यते। यदि सः दुष्टैः जनैः सह निवसति तर्हि प्रभावेनानेन सः दुष्टो वै भवति। यदि वा सज्जनानां सङ्गतौ वसति, तर्हि सः सज्जनो भवति। अनेनैव कथ्यते नीतिविद्भिः-

“संसर्गजाः दोषगुणाः भवन्ति”

प्राचीनकाले वाल्मीकिः नाम ऋषिः स्वस्य जीवनस्य प्रारम्भिके काले दस्युरेव आसीत्। सज्जनानां साधूनां वा संगत्या सः मुनिः सञ्जातः, तदनन्रञ्च महाकविः, रामायणं नाम संस्कृतमहाकाव्यस्य संरचना कृता तेन। सत्सङ्गत्या एव ‘कबीर’ इति नामकः जनः निरक्षरोऽपि सन्तसमाजे प्रतिष्ठावान् सञ्जातः। अनेकशः मानवः विद्वान् ज्ञानवान् वा भवति, किन्तु तस्य कार्याणि दुष्टानि भवन्ति। ईदृशानां जनानां सङ्गतिः कदापि न विधेया। उक्तञ्च भर्तृहरिणा महाकविना-

दुर्जनः परिहर्तव्यः विद्ययाऽलंकृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयंकरः ।।

संसारेऽस्मिन् यदि जनः सुखी भवितुं वाञ्छति, तर्हि तेन सदैव सज्जनानां सङ्गतिः करणीया। दुष्टेभ्यः जनेभ्यः सदैव दूरीभूयात्। दुष्टानां सङ्गतिः कज्जलवत् भवति, यत्र गमने मलिनता अवश्यमेव भवति, एवमेव दुष्टानां संगत्या जनस्य चरित्रमपि मलिनं कलुषितं वा भवति। अनेनैव कथ्यते-

सद्भिरेव सहासीत्, सद्भिः कुर्वीत सङ्गतिम् ।
सद्भिर्विवादं मैत्रीं च, नासद्भिः किञ्चिदाचरेत् ।।

प्रायः दृश्यते यत् मानवः सुसंस्कारैः विलम्बेन प्रभावितो भवति, दुःसंस्कारैश्च सः खलु शीघ्रमेव प्रभवति। अतः अस्माभिः सदैव सावधानो भूत्वा सत्सङ्गतिः वै विधेया। स्वं मित्राणि पारिवारिकान् सदस्यान् च सदैव दुष्टसंगात् वारयितव्यम्। सत्सङ्गतिस्तु वस्तुतः गुणनिधाना वर्तते। यदि जनः गुणीजनसंसर्गे वसति, नैव तं जनं कस्यापि शिक्षकस्य अध्यापकस्य वा कदापि आवश्यकता प्रतीयते। कुत्रापि च विद्याध्ययनस्य अनिवार्यता नैव, कुतः तस्मिन् स्वयमेव सत्सङ्गत्या प्रभावेण ते सर्वे गुणाः प्रविशन्ति, येन जनेन सह सः वसति। अतएव केनापि कविना सत्यमेव कथितम् –

जाड्यं धियो हरति सिंचति वाचि सत्यं,
मानोन्नतिं दिशति पापमपाकरोति।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं,
सत्संगतिः कथय किं न करोति पुंसाम्।।

अतः अस्माभिः सदैव सत्सङ्गतिः विधेया।


LEAVE A REPLY

Please enter your comment!
Please enter your name here