शरद्ऋतुः
वर्षा ऋतोः अनन्तरम् शरद्ऋतुः आगच्छति। अस्मिन् ऋतौ आकाशः स्वच्छो भवति। धरा च शस्यशालिनी मनोहारिणी भवति। नदीजलाशयानां वर्षाकाले मलिनं जलं अस्मिन् ऋतौ निर्मलं सञ्जायते। रात्रौ निशाकरस्य कौमुदी जनानां मनोभ्यः आह्लाददायिनी भवति। अनया परिपूरिताः सर्वा खलु दिशः परमानन्दम् आवहन्ति।
ग्रामेषु, नगरेषु, वनेषु, उपवनेषु, सरोवरेषु, पर्वतेषु सर्वत्रैव अस्मिन् काले नवनवा सुषमा दृश्यते। अपगते वर्षाकाले मार्गाः पङ्कहीनाः स्वच्छताम् आवहन्ति। सर्वाणि अवरुद्धानि कार्याणि अस्मिन् ऋतौ सञ्चारितानि भवन्ति। जलाशयानां निर्मले जले नवदलानि कमलानि विकसन्ति। भ्रमराः तेषु गुञ्जारं कुर्वन्ति, आमोदं च अनुभवन्ति।
चन्द्रमसः चारुचन्द्रिकायाः यादृशं स्वरूपम्, अनुभवं च अस्मिन् शरदि नैव तादृशं अन्यस्मिन् कस्मिन्नपि ऋतौ प्रतीयते। अस्मिन् ऋतौ विविधेषु स्थलेषु कासानां समृद्धिः अतीव आकर्षयति जनानां चेतांसि। मरालाः वर्षाकाले मानसरोवरं गच्छन्ति। खिन्नमानसाः, किन्तु शरदि ते पुनः आयान्ति तेषां समागमनेन सरोवराणां सुषमा पुनः वर्द्धते।
प्राचीनकाले राजानः स्वविजययात्रां वर्षाकाले स्थगयन्ति स्म, किन्तु शरदृतौ ते पुनः विजयार्थं प्रयाणं कुर्वन्ति स्म। अतः तेषां कृते ऋतुः अयम् अतीव महत्त्वपूर्णः आसीत्, यतोहि तेषु उत्साहं वर्धयति स्म ऋतुरसौ। केनापि कविना अस्य ऋतोः शोभनं वर्णनं कृतम्-
समुल्लसत्पङ जलोचनेन
विनोदयन्ती तरुणानशेषान् ।
शुद्धाम्बरा गुप्तपयोधरश्रीः
शरन्नवोढेव समाजगाम ।।
वस्तुतः शरद्ऋतुः शुद्धाम्बरा नवोढा इव आभाति। यः अशेषान् तरुणान् मनांसि आलोडयति। अस्याः नवोढायाः लोचनानि पङ्कजानि सन्ति। एवमेव अन्येन कविना अस्य ऋतोः उपमा नववधूना सह प्रदत्ता, तत्र सा वधूः काशांशुका कथिता अस्ति। तस्याः पादौ हंसरवनूपुराणि सन्ति-
काशांशुका विकचपद्ममनोज्ञवक्त्रा,
सोन्मादहंसरवनुपूरपादरम्या ।
आपक्वशालिरुचिरा तनुगात्रयष्टिः,
प्राप्तः शरद् नववधूरिव रम्यरूपा । ।
अस्य ऋतोः वर्णनं महाकवि-कालिदास वाल्मीकि माघ-भारवि-श्रीहर्ष-भास-विशाखदत्तादीनां काव्येषु दृश्यते। अस्मिन् ऋतौ कासानां पुष्पाणि चतुर्दिक्षु विकसितानि सर्वेषां जनानां मनांसि सहजेनैव हरन्ति। हंसानां मधुरा वाणी वातावरणे मादकतायाः सञ्चारं करोति। पक्वानि पीतानि धान्यानि सर्वेषां मनःसु आह्लादं उत्पादयन्ति।
महाकविभासेन स्वप्नवासवदत्तम् नाम नाटके अस्मिन् ऋतौ स्वच्छे निर्मले आकाशे सारसानां पंक्तिः कीदृशी प्रतीयते, अस्य वर्णनम् अतीव आकर्षक मनोरमं च कृतम्-
ऋज्वायतां च विरलां नतोन्नतां च,
सप्तर्षिवंश कुटिलां च निवर्तनेषु ।
निर्मुच्यमान भुजगोदरनिर्मलस्य,
सीमामिवाम्बरतलस्य विभज्यमानाम् ।।
वस्तुतः कुमुद-काश-पुण्डरीक शेफालिकादीनां पुष्पैः पुष्पिता सज्जिता एषा नटी ‘शरद्’ आबालवृद्धानां नारीणां च हृदयेषु मादकतायाः सञ्चारं करोति। अस्माभिः सदैव अन्येषां ऋतूणां तुल्यः अस्यापि ऋतोः स्वागतः आदरश्च खलु कर्तव्यः प्रसन्नमनसा।