अहिंसा परमोधर्मः | Essay on Ahinsa Paramo Dharmah in Sanskrit

0
10508

अहिंसा परमोधर्मः


न हिंसा इति अहिंसा’ इति विग्रहानुसारेण ‘हिंसा’ शब्दे नञ् समासकृते अहिंसा शब्दो निष्पद्यते। अस्य अयम् अभिप्रायः- “हिंसायाः अभावः एव अहिंसा” भवति कथ्यते वा। सामान्यतः जनाः प्राणीहननं हिंसारूपेण मन्यन्ते, किन्तु अहिंसा शब्दे नैव एषोऽभिप्रायः, अपितु अहिंसा शब्देन अभिप्रायोऽयं गृहीतव्यः यत्-मनसा, वाचा, कर्मणा नैव कस्यापि अहितचिन्तनं, कटुभाषणम् अप्रियम् आचरणमेव अहिंसा भवति। नैव एतत् सर्वं मानवं प्रति अपितु अस्मिन् जगति येऽपि प्राणिनः सन्ति तान् सर्वान् प्रति हिंसायाः परित्यागः करणीयः।

सर्वेषु सम्प्रदायेषु धर्मेषु वा अहिंसायाः महत्त्वं वर्ण्यते। संसारेऽस्मिन् नैव कोऽपि एतादृशो धर्मप्रवर्तकोऽभवत् येन हिंसायाः उपदेशः कृतः। सर्वं रेव अहिंसायाः आवश्यकता स्वीक्रियते। आचार्य मनुनापि स्व विरचितौ स्मृतौ दशसु धर्मलक्षणेषु सर्वप्रथमम् अहिंसायाः परिगणनं कृतं विद्यते। एवमेव योगसूत्रेषु योगाङ्गानां गणनाप्रसङ्गे ‘यम’ नामके अङ्गे सर्वप्रथमं अहिंसायाः एव परिगणनं सञ्जातम्। अतः एतत् सर्व अहिंसायाः जीवनेऽस्माकं प्रमुखतां प्रतिपादति।

भारतवर्षे तु प्राचीनकालादेव अहिंसायाः महत्त्वं स्वीकृतम्। बुद्ध-महावीर-सम्राट् अशोक-महात्मागान्धि-प्रभृतिभिः जनः महापुरुषैः वा सदैव अहिंसायाः शान्तेश्च उपदेशः कृतः, इति सर्वैः ज्ञातम् एव। एषु सर्वेषां मते ‘अहिंसया दुष्कराणि अपि कार्याणि सुकराणि भवन्ति’, इति।

वस्तुतः हिंसया सर्वत्र अशान्तिः प्रसरति, किन्तु अहिंसायाः अवलम्बनेन चतुर्दिक् शान्तेः वातावरणं भवति। अहिंसायाः आचरणेन सर्वत्र सौहार्द्र, सुखं, सौख्यं च भवति। अस्याः व्यवहारः सर्वेषु जनेषु औदार्यं विस्तारयति, दयाभावं उत्पादयति। अहिंसया मानवः हिंस्रजीवान् अपि वशीकरोति मानवानां का कथा। यस्य जनस्य चित्ते मनसि वा अहिंसायाः निवासोऽस्ति, तस्य समीपे सर्वे प्राणिनः वैरभावं विस्मरन्ति। एतत् अस्माभिः प्राचीनग्रन्थेषु पुराणेषु वा ऋषि मुनीनां विषये श्रुतमेव। तेषां आश्रमेषु हिंसकाः अपि प्राणिनः हिंस्रभावं परित्यज्य दयाभावं मैत्रीभावं वा अङ्गीकुर्वन्ति स्म। योगसूत्रेऽपि कथितम् –

“अहिंसा प्रतिष्ठा यां तत्सन्निधौ वैरत्यागः”

अनेनैव प्राचीनकाले ऋषीणाम् आश्रमेषु गोव्याघ्रादिपशवः परस्परविरोधिनः सत्यपि स्व वैरभावं विस्मृत्य प्रेमपूर्वकं स्नेहभावं निवसन्ति स्म। वस्तुतः एषः प्रभावः अहिंसायाः एव आसीत्। अस्माकं शास्त्राणि धर्मस्य स्थितिः अनेकेषु स्थानेषु मन्यन्ते। केचित् परोपकारे, अन्ये यज्ञे इतरे सत्याचरणे संभाषणे वा धर्म स्वीकुर्वन्ति, किन्तु तेषु ‘अहिंसारूप-धर्मः श्रेष्ठतमः कथितः। उक्तञ्च-

‘अहिंसा परमो धर्मः’

कोऽपि जनः हिंसां हिंसया शमीकर्तुं न शक्यते, किन्तु अहिंसया एव हिंसायाः उपरि विजयीभवति मानवः। विश्वप्रसिद्धमेतत् यत् बलशालीनां आङ्गलशासकानां समक्षे हिंसया किमपि भवितुं न शक्यते स्म, किन्तु अहिंसायाः पुरतः तैरपि समर्पणं कृतम्। भगवता बुद्धेन अहिंसायाः महान् प्रचारः विहितः। न केवलं भारतवर्षे अपितु चीन-जापान वर्मा-श्रीलंका प्रभृतिषु देशेषु अद्यापि बौद्धधर्मधारा अहिंसायाः प्रचारः करोति।

विषयेऽस्मिन् एतत् सर्वथा चिन्तनीयं वर्तते यत्- ‘कदापि केनापि कस्यापि वधः न करणीयः’ एषापि व्याख्या पूर्णतया अहिंसायाः न करणीया, अपितु दुष्टानां पापिनाम् अपराधिनां आततायिनां वा वधः अवश्यमेव करणीयः, यतोहि समाजस्य, देशस्य, धर्मस्य मर्यादायाश्च रक्षा अनेनैव भविष्यति, तस्य हिंसायां नैव कोऽपि अपराधः दर्शनीयः। अस्माकं शास्त्रेषु आततायिनां वधव्यवस्था विहिता दृश्यते। वैदिककाले ‘वेन’ अस्योदाहरणम् अस्ति। आततायि सञ्जाते तस्य ऋषिभिः मिलित्वा वधः कृतः आसीत्। अनेनैव वेदविषये कथ्यते-

‘आचारहीनं न पुनन्ति वेदाः’

अस्माकं समाजे सदैव आचारवन्तः सम्मानं लभन्ते। ये आचरणविहीनाः सञ्जाताः तेषां वधेऽपि नैव कोऽपि दोषोऽस्ति। अद्य सर्वत्रापि विश्वे हिंसाया प्रभावः दृश्यते। आतंकवादीनां आतङ्कः सर्वत्र चतुर्दिक् प्रसरति । सम्पूर्णा मानवता चित्करोति तेषां समक्षे, एतादृशे समये अहिंसायाः उपदेशः खलु अवलम्बोऽस्ति। अस्याः एव आचरणेन सिद्धान्तेन वा सर्वत्र दयायाः, प्रेम्णः शान्तेश्च वृष्टि र्भविष्यति। अतः सर्वैः जनैः अहिंसायाः पालनम् अवश्यमेव करणीयम्। यतोहि विश्वशान्तिः अहिंसयैव सम्भाविता अस्ति।

अनेनैव श्रीमद्भगवद्‌गीतयाऽपि अहिंसा दैवी सम्पत्सु परिगणिता विद्यते-

अहिंसासत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दयाभूतेष्वलौलुप्त्वं मार्दवं हीरचापलम् ।।


LEAVE A REPLY

Please enter your comment!
Please enter your name here