प्रातः कालः | Essay on Morning in Sanskrit

0
10593
y on Morning in Sanskrit

प्रातः कालः

निशायाः अवसाने पूर्वस्यां दिशि भगवान् भुवनभास्करस्य उदिते प्रभातवेला भवति। प्रातः काले सर्वप्रथमं आदित्यस्य सारथिः अरुणस्य प्रकाशः आयाति, तदनन्तरं सूर्यस्य दर्शनं भवति। आदित्यस्य रक्तरञ्जितैः किरणैः सम्पूर्णः संसारः मनोहरः प्रतीयते। पुराणेषु कथ्यते यत् भास्करस्य रथे सप्त-अश्वाः संयुक्ताः सन्ति। ते सर्वे हरितवर्णाः विद्यन्ते। उरूरहितः अरुणः अस्य सारथिः कथ्यते।

प्रातःकाले सर्वे जनाः शय्यां परित्यज्य स्वेषु कार्येषु संलग्नाः भवन्ति। पशुपक्षिणोऽपि निद्रां विहाय स्वक्रियासु व्यापृताः भवन्ति। सरोवरेषु काननेषु विविधानि पुष्पाणि विकसन्ति, सुगन्धिं च सर्वासु दिक्षु प्रसारयन्ति। अस्मिन् काले तृणोपरि स्थिताः जलबिन्दवः मुक्तानि इव आभान्ति। वस्तुतः समयोऽयं मनोहरो भवति। इदानीं शीतः सुगन्धितः च पवनः मन्दं मन्दं प्रवहति।

अस्मिन्नेव समये बहवः जनाः शय्यां परित्यज्य भ्रमणार्थ नदीतटेषु सरोवरेषु वा गच्छन्ति। प्रातः कालिकं भ्रमणं अतीव स्वास्थ्यकरं भवति। कृषीवलाः प्रातः काले एव उत्थाय क्षेत्रेषु गच्छन्ति। तत्र गत्वा क्षेत्रकर्षणं बीजवपनं, क्षेत्रेषु जलप्रदानादिकं च अनेकानि कार्याणि कुर्वन्ति। इदानीं पक्षिणां कलरवम् अतीव मधुरं कर्णप्रियं च भवति। प्रमुदिताः भ्रमराः पुष्पेषु गुञ्जन्ति रसपानं च कुर्वन्ति।

जनाः प्रातःकाले उत्थाय स्नानार्थं जलाशयेषु नदीषु वा गच्छन्ति। तत्रैव प्रातः ईशवन्दनमपि कुर्वन्ति। स्नानानन्तरं भगवान् भास्कराय जलदानमपि क्रियते तैः, अनेन ते यशस्विनः भवन्ति। अनन्तरमेव ते स्वेषु स्वेषु कार्येषु निमग्नाः जायन्ते।

प्रभाते गोपालाः गोदोहनं कुर्वन्ति, पश्चात् तान् वनं नयन्ति । तत्र ताः गावः स्वेच्छानुसारं हरितानि तृणानि शष्पाणि वा भक्षयन्ति। मध्याह्ने वृक्षाणां छायायां स्थित्वा चर्वण-कार्य कुर्वन्ति। सायंतने काले पुनः स्व-स्व-स्थानेषु निवर्तन्ते।

वेदपाठिनः ब्राह्मणाः प्रातः काले एव उत्थाय वेदपाठं, यज्ञं च कुर्वन्ति। विद्यार्थिनः स्वपाठं स्मरन्ति, स्वाध्यायं च कुर्वन्ति। होमधेनवः पुण्यतमे ऽस्मिन् समये स्ववत्सेन सह चरन्ति। आश्रमेषु शङ्कारहिताः मृगाः स्वेच्छानुसारं विचरन्ति। ब्रह्मचारिणः समिधः आहरणाय वनेषु गच्छन्ति। आश्रमेषु स्थिताः स्त्रियः बालिकाः वा पूजनार्थ पुष्पाणि चिन्वन्ति।

धार्मिकजनाः प्रातःकाले एव सन्ध्यावन्दनं कुर्वन्ति। वस्तुतः कालोऽयं सर्वेषां प्राणिनां कृते हिताय खलु भवति, अनेनैव समयोऽयम् ‘अमृतवेला’ इति नाम्ना अपि कथ्यते। अस्मिन् समये यदपि कार्य क्रियते तत् अवश्यमेव सफलं भवति। अतः विद्यार्थिनः इदानीमेव पठन्ति। अस्मिन् काले योऽपि पाठः पठ्यते सः सहजेनैव स्मर्यते छात्रैः।

इदानीं पर्वतानां दृश्यम् अतीव मनोहरं भवति। पर्वतारोहिणां कृते प्रभातकालः अतीव अनुकूलः भवति पर्वतारोहणाय। अस्मिन् समये क्लान्तिः अपि न भवति। संस्कृतकाव्येषु प्रायः प्रभातस्य मनोरमं वर्णनं कृतं विद्यते। महाकविकालिदासेन अभिज्ञानशाकुन्तले कथितम् इमं कालम् अधिकृत्य-

यात्येकतोऽस्तशिखरं पतिरोषधीना-
माविष्कृतोऽरुणपुरस्सर एकतोऽर्कः ।
तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां,
लोको नियम्यत इवात्म दशान्तरेषु । ।

वस्तुतः प्रातः कालिकी सुषमा अतीव मनोहारिणी प्रमोदिनी हृदयाकर्षका च भवति। अतः अस्माभिः सदैव प्रातःकाले शय्यां परित्यज्य स्वेषु कार्येषु संलग्नः भवितव्यः। भगवत्स्मरणम् इदानीम् अत्यावश्यकम्, अनेन सम्पूर्ण दिवसे आत्मविश्वासः वर्धते, शरीरे च ऊर्जायाः सञ्चारः जायते। प्रातः काले उत्थाय अस्माभिः सदैव गुरुजनाः पितरश्च अवश्यमेव नम्याः अभिवादनीयाश्च। अनेन अस्माकं सर्वेषु कार्येषु सिद्धिः सफलता वा भवति।


LEAVE A REPLY

Please enter your comment!
Please enter your name here