अस्माकं महाविद्यालयः | Essay on My College in Sanskrit

0
10571
Essay on My College in Sanskrit

अस्माकं महाविद्यालयः

अस्माकं महाविद्यालयस्य नाम ‘राजकीयः महाविद्यालयः’ बांसवाडा अस्ति। महाविद्यालयोऽयं राजस्थानप्रदेशस्य सुदूर दक्षिणस्यां दिशि आदिवासी क्षेत्रे नगराद् बहिः सुरम्ये वातावरणे स्थितोऽस्ति। अस्य भव्यं भवनं सुधया अवलिप्तं दूरतः एव दृश्यते। अत्र सर्वाषां कक्षाणां प्रकोष्ठानि पृथक् पृथक् निर्मितानि सन्ति विशालाकारयुक्तानि। प्रत्येके कक्षे काष्ठनिर्मितानि वेत्रासनानि पंक्तिबद्धानि सन्निहितानि सन्ति।

महाविद्यालयस्य भवनस्य समक्षे एकं सुन्दरम् उद्यानम् अस्ति। यन्त्र बहवः हरिताः पुष्पवृक्षाः विराजन्ते। पृथिव्यां च कोमलानि हरितानि च शाङ्गलतृणानि शोभन्ते तेषां स्पर्शम् अतीव सुखकरम् आनन्ददायकञ्च अस्ति। उद्याने अस्मिन् विविधवर्णानि सुगन्धिनि पुष्पाणि प्रतिदिवसं नूतनाम् आभां धारयित्या विकसन्ति, आगन्तुकानां जनानां छात्र-छात्राणां च मनांसि प्रफुल्लीकुर्वन्ति। अस्य उद्यानस्य रक्षार्थ एकः मालाकारः नियुक्तः अस्ति। महाविद्यालयं परितः एकं विशालं प्राचीरं वर्तते। यस्य उत्तरस्यां दिशि डूंगरपुरमार्गे एकं लौहमयं विशालं गौपुरं विराजते।

अस्मात् एव मार्गात् छात्राः अन्ये च जनाः महाविद्यालयं प्रविशन्ति। अस्मिन् महाविद्यालये एकः विशालः पुस्तकालयः वाचनालयश्च अस्ति। पुस्तकालयभवनं महाविद्यालय भवनस्य उत्तरस्यां दिशि निर्मितम् अस्ति। पुस्तकालयेऽस्मिन् छात्राः स्थित्वा अध्ययनं कुर्वन्ति। अत्र सर्वेषां विषयानां बहूनि पुस्तकानि सन्ति। अत्र एकः पुस्तकालया-ध्यक्षोऽपि नियुक्तोऽस्ति।

महाविद्यालयेऽस्मिन् स्नातक स्नातकोत्तरकक्षाणाम् अध्यापनं सम्पद्यते। अन्न हिन्दी-राजशास्त्र-संस्कृत अर्थशास्त्र भूगोल-उर्दू-विज्ञान-वाणिज्यं-आङ्गलभाषा-दर्शनशास्त्र-इतिहासादीनाम् अनेकानां विषयानां अध्ययनं सुचारुरूपेण प्रचलति। अस्मिन् महाविद्यालय त्रिसहस्र संख्यकाः छात्राः अध्ययनं पठन-पाठनं च कुर्वन्ति।

अत्रत्याः अध्यापकाः सुयोग्याः कार्यकुशलाः प्रवीणाश्च स्वेषु स्येषु विषयेषु सन्ति। अस्य महाविद्यालयस्य छात्राणां विश्वविद्यालयस्य योग्यताक्रमे प्रायः प्रतिवर्षेऽनेकविषयेषु स्थानम् आयाति। अतः महाविद्यालयोऽयं उदयपुरमण्डले श्रेष्ठतमेषु महाविद्यालयेषु गण्यते। अस्य छात्राः राज्यस्तरीयासु प्रतियोगितासु प्रायः सहभागितां कुर्वन्ति, अग्रेसराश्च भवन्ति तासु।

समये समये आयोजितासु प्रतियोगितासु प्रातिनिध्यं कुर्वतां छात्राणां प्रशिक्षणार्थ वाक् प्रौढिं प्रदर्शनार्थञ्च प्रतिसप्ताहे शनिवासरे छात्र सभायाः आयोजनं भवति। यस्यां छात्राः स्व भाषणं कवितां आख्यायिकाञ्च प्रस्तुवन्ति। अनेन तेषां छात्राणां बुद्धेः योग्यता वर्धते, वाक् पाटवं च आयाति। छात्राणां शरीरस्य विकासाय महाविद्यालयेऽस्मिन् एकं क्रीडाक्षेत्रम् अपि वर्तते। छात्राः अस्मिन् पठनानन्तरं हस्तकन्दुकपादकन्दुक-क्रीडा-धावनादिविविधान् व्यायामान् कुर्वन्ति। तेषां शिक्षणार्थ अत्र एकः व्यायामशिक्षकोऽपि अस्ति।

अस्मिन् महाविद्यालये राष्ट्रीय सेवा योजनायाः इकाई तिस्रः सन्ति। सर्वकारेण देशरक्षणार्थ अत्र राष्ट्रीय-सैनिक प्रशिक्षणस्य “एन.सी.सी. इत्यस्य व्यवस्थापि कृता वर्तते। महाविद्यालयेऽस्मिन् प्रतिवर्ष छात्राणां चुनावोऽपि सम्पद्यते। छात्रैः निर्वाचिताः छात्राः छात्रसंघमाध्यमेन महाविद्यालयस्य विकासाय छात्राणां काठिन्यं दूरीकरणार्थ च यतन्ते। प्रतिवर्ष अस्य महाविद्यालयस्य वार्षिकोत्सवोऽपि भवति, तस्मिन् पुरस्कार वितरणं भवति। ये छात्राः वर्षपर्यन्तं अनेकासु प्रतियोगितासु भागं गृहीतवन्तः तेभ्यः।

अस्य महाविद्यालयस्य प्राचार्यः श्री लक्ष्मणभाटिया अस्ति। सः अतीव सुयोग्यः अध्यवसायी, प्रशासनकुशलश्च अस्ति। विदुषां प्रेमी, कलाप्रेमी कर्मठश्च अयं सदैव महाविद्यालयस्य विकासाय उन्नत्यर्थं च प्रयतते समर्पणभावनया। सर्वकारस्य आदेशानुसारेण अद्यत्वे एकस्याः महाविद्यालय-विकाससमित्याः अपि संघटनं कृतं विद्यते। समितिरेषा महाविद्यालयस्य विकासार्थ चिन्तनं प्रयत्नं च करोति। अनेन प्रकारेण अस्माकं महाविद्यालयः वस्तुतः एकः आदर्शः महाविद्यालयः अस्ति। अतः अस्माभिः सदैव अस्य विद्यामन्दिरस्य उन्नत्यर्थं प्रयत्नो विधेयः।


LEAVE A REPLY

Please enter your comment!
Please enter your name here