विद्यार्थी जीवनम्
विद्यार्थी जीवनं मानवजीवनस्य स्वर्णिमकालोऽस्ति। अस्मिन् काले एव मानवस्य निर्माणं भवति। अस्मिन् समये अङ्किताः संस्काराः मनुष्यजीवने स्थायीरूपेण संस्थिताः भवन्ति। ते कदापि विनष्टाः न भवन्ति। वस्तुतः अस्य जीवनस्य सफलता एव मानवजीवनस्य सफलता वर्तते।
अस्माकं शास्त्रेषु मानवजीवनं चतुर्षु आश्रमेषु विभक्तीकृतं विद्यते। तेषु प्रथमः ब्रह्मचर्याश्रमः। अयमेव विद्यार्थिजीवनं छात्रजीवनं वा कथ्यते। अस्य आश्रमस्य महत्त्वं ईदृशं यत् अस्माकं पुरातनग्रन्थाः अनेन आश्रमेण मनुष्यस्य द्वितीयं जीवनं मन्यन्ते। वस्तुतः मानवः यदा जन्म गह्णाति, तस्मिन् काले सः पशुः तुल्यः भवति। तस्य जीवनस्य लक्ष्यं केवलं खादनं पानं, स्वप्नञ्च वर्तते।
किन्तु छात्रजीवने सः संस्कारान् लभते। अस्मिन् समये तस्य चरित्रनिर्माणं भवति। अस्मिन् काले अर्जितेन ज्ञानेनैव सः स्वजीवने साफल्यं भजते। धर्मतत्त्वस्य अवबोधनाय कालोऽयं महत्त्वपूणर्णोऽस्ति। अनेन कथितं केनचित् कविना सम्यगेव-
चारित्र्यस्य विनिर्माणं साफल्यं जीवनस्य च।
आश्रमे प्रथमे नूनं कर्तव्यं ब्रह्मचारिणा ।।
विद्यार्थिनः एव भाविनः नागरिकाः अस्माकं देशस्य च कर्णधाराः सन्ति। ते खलु समाजस्य राष्ट्रस्य च चहुंमुखी विकासाय सक्षमाः भवन्ति। अस्मिन् काले आश्रमे वा मनुष्यः महापुरुषाणां विचारान् पठितुं, सम्यरूपेण च आचरितुं अवसरं प्राप्नोति।
अस्मिन् एव समये विद्यार्थिनः स्व तपोमयेन जीवनेन कठोखतेन च ज्ञानार्जनं कुर्वन्ति, कठोव्रतं च आचरन्ति। अनेन तपसा ज्ञानेन च ते स्व भाविजीवने कष्टानि सोढुं समर्थाः भवन्ति। मनुष्यजीवने विद्यायाः ज्ञानस्य तपसः दानादिधर्मस्य च विशिष्टं महत्त्वम् अस्ति। विषयेऽस्मिन् महाकविना भर्तृहरिणा सम्यक् एव उक्तम् –
येां न विद्या न तपो न दानं,
ज्ञानं न शीलं न गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूताः,
मनुष्यरूपेण मृगाश्चरन्ति ॥
वर्तमानसमये विद्यार्थिषु बहवः दोषाः प्रविष्टाः अभवन्। अनेन ते दिग्भ्रमिताः सञ्जाताः । यतोहि सम्प्रति विद्यार्थिनः स्वहितं विस्मृत्य खलु राजनीतिकक्षेत्रेषु भार्ग ग्रह्णन्ति। अनेन तेषां जीवनं अन्धकारमयं सञ्जातम्। प्राचीनसमये विद्यार्थिनां महती प्रतिष्ठा आसीत्। यतोहि ते सदाचारिणः सत्यवक्तारः शीलवन्तश्च आसन् तस्मिन् समये। ते संयमस्य प्रतिमूर्तयः आसन्। तस्मिन् काले ते खलु स्वगुरूणां सेवां कुर्वन्ति स्म, किन्तु अद्यत्वे एतादृशी स्थितिः न प्रतीयते। अस्माकं शास्त्रेषु विद्यार्थिणां पञ्चलक्षणानि कथितानि-
काकचेष्टा बकोध्यानं
श्वाननिद्रा तथैव च ।
स्वल्पाहारी, गृहत्यागी
विद्यार्थिनः पञ्चलक्षणम् ।।
वस्तुतः एतेषां नियमानां सम्यरूपेण पालनेनैव कोऽपि वालकः स्व विद्यार्थिजीवने ज्ञानोपार्जने सफलः भवति। चरित्रनिर्माणे च सक्षमः भवति। विद्यार्थिणां मुख्यं लक्ष्यं जीवनस्य पठन-पाठनं, स्वचरित्रनिर्माणं च भवितव्यम्। ये छात्राः स्वास्थ्यस्य, चरित्रस्य रक्षां कुर्वन्ति ते कदापि स्व भाविजीवने पश्चात्तापं न कुर्वन्ति।
छात्रैः सदैव स्वगुरूणां आज्ञा पालनीया। अनेन खलु ते प्रसन्नाः भूत्वा उत्कृष्टं ज्ञानं, स्नेहाशिवं च दास्यन्ति। तेषां शुभाशिषेण छात्राणां जीवनं सफलं भविष्यति। सफले च तेषां जीवनस्य सञ्जाते अस्माकं देशस्य राष्ट्रस्य च बहुमुखी विकासोऽपि भविष्यति। अतएव छात्रैः सदैव अस्य स्वर्णावसरस्य सदुपयोगः कर्तव्यः, समयस्य विनाशः न कर्तव्यः कदापि।
ये छात्राः अस्मिन् काले आलस्यं कुर्वन्ति, गुरूणां आज्ञां न पालयन्ति, सत्यं न आचरन्ति, परिश्रमेण संयमेन च नियमपूर्वकं कार्याणि न कुर्वन्ति, ते कदापि स्वजीवने सफ लाः न भवन्ति। वस्तुतः कालोऽयं सुखानाम् उपभोगाय न वर्तते। परिश्रमेण विना कदापि कोऽपि विद्यां लब्धुं न शक्नोति। अतएव उच्यते-
सुखार्थिनः कुतो विद्या,
विद्यार्थिनः कुतो सुखम् ।
सुखार्थी वा त्यजेद् विद्यां,
विद्यार्थी वा त्यजेत् सुखम् ।।
वस्तुतः विद्यार्थिभिः सदैव नियमपूर्वकं अल्पं भोजनं करणीयम्, नियतसमये प्रातः काले व्यायामः करणीयः अनेन तस्य शरीरं वलिष्ठं पुष्टं च भविष्यति। जीवने साफल्याय शरीरपुष्टिः आवश्यिकी। तैः सदैव आलस्यं परित्यज्य प्रातः काले चतुर्वादने उत्थाय अध्ययनं कर्तव्यम्। सदैव शोभनविचारयुक्तानि पुस्तकानि पठितव्यानि। अनेन तेषां चित्तशुद्धिः भविष्यति। जीवनस्य निर्माणाय मानवस्य चित्तस्य शुद्धेः अतीव आवश्यकता अस्ति। यतोहि स्वस्थे चित्ते स्वस्थानां विचाराणां स्थितिः निवासः वा भवति इति।