संस्कृत निबन्ध – रक्षाबन्धनम् | Sanskrit Essay – Raksha Bandhan

0
987
Sanskrit Essay - Raksha Bandhan

निबन्ध – रक्षाबन्धनम्

रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते। भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति। निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः।

मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति। आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम्।

भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर! मम भ्रातुः रक्षणं करोतु” इति। एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति। भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति। ततः उभौ परस्परं मधुरं भोजयतः।

भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति। भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते।

LEAVE A REPLY

Please enter your comment!
Please enter your name here